________________
सग-१
૩૫
कथं मयि सति ग्रीष्म-राजस्तापयति क्षमा । शोषयति तडागांश्च, नदीद्रहमहीरुहान् ॥५३॥ दीर्घाहविरहोद्भूत-तापायाः पृथिवीस्त्रियाः । कामतापं निराकर्तु-मिवाधस्तात्समागतः।।५४॥ कांतासंगोत्सुका जाता, निखिलाश्च प्रवासिनः । कमोपि निखिलं मुक्त्वा, ययुः स्वं स्वं निकेतनं५५ कामोद्भूतप्रतापेन, कंपमानशरीरकः । हलोपकरणं सर्व, मुक्तयागात्प्रवरो गृहे ॥५६॥ भामिनीभोगभंयोगे, विजनं मृग्यते पदं । इतीव जलदेनापि, कृतं विजनकाननं ।।५७॥ बहुकालवियोगित्वा-द्भुक्त्वा च त्रसुधांगनां । स सप्तभिरहोरा-स्तत्संगाद्विरतोऽभवत् ।।५८॥ तेन मेघेन जंतूनां, दुःखव्याकुलताभवत् । गोमायुयुग्ममप्यासी–दतीव क्षुधयाकुलं ॥५९॥ अष्टमे दिवसे वृष्टे-विरतौ च क्षुत्पीडितौ । कृशांसौ च शृगालौ तौ, निःसृतौ गुल्मतो बहिः।६० पृथ्वी हलादिसंबद्धा, दुश्चर्मरज्जवोऽपि च । द्रवीभूतास्मया वृष्टया-तिभोगादित्थमेव हि ॥६१॥ पीडिताभ्यां क्षुधा ताभ्यां, क्षेत्रे तत्रैव संस्थिताः । हलादियंत्रिता आर्द्रा, भक्षिताश्चर्मरज्जवः।।६२॥ आर्द्राणां चर्मरज्जूना, भक्षेणेनोदरेऽभवत् । शूलव्यथा तयोस्तीत्रा, तौ मृतौ बाधया तया ॥६३॥ केनचिद्विधियोगेन, तौ द्वावपि शृगालकौ । जातौ सुतौ युवां मृत्वा-त्र विप्रसोमशर्मणः ॥६४॥ अल्पकालोज्झितां पूर्वी, जातिं न स्मरथो युवां । ब्राह्मणजातिमासाद्या-भिमानं कुरुथो धनं ॥६५॥ समस्तैरपि यद्वज्ये, युवाभ्यां तत्तु भक्षितं । तथापि निदथः साधून् , पौराणां पुरतो युवां ॥६६॥ स्वरूपमीदृशं सौवं, समाकान्यजन्मनः । सुकृती पुण्यकृत्यानि, करोति पापपिष्टये ॥६७॥ पुण्येन रहितो जंतु-दुष्टां जातिमवाप्नुयात् । तुच्छं कुलं कुरूपं च, कुचलं कुत्सितं श्रुतं ।।६८॥ कुत्सितं च तपःकर्म, कुलाभं मंदनिर्मितेः । इह लोके परलोके, निंदनीयोऽखिलैरपि ॥६९॥ यो भवेत्पुण्यवान् प्राणी, जात्यादि मदवर्जितः । प्रोक्तान्येताति भव्यानि, लभते भविनां वरः७० द्वितीयं च दशांगानि, भवेयुर्यत्र नित्यशः । लभते मानुषं जन्म, तत्र स्थाने स पुण्यवान् ॥७॥ कामस्कन्धश्चतुर्भिः स्या-दंगमेकं सुखान्वितं । क्षेत्रवास्तुहिरण्यौध-पशुदासैः समन्वितं ।।७२॥ पुत्रपौत्रादिसंयुक्तो, मित्रवान् वर्णवान् पुनः । अल्पातंको महाप्रज्ञो, बुद्धिमान् कीर्तिमान् बली पूर्वोक्तेन किलैकेन, युतो वा सकलांगकैः । द्वयादितो वा नवांगैश्व, सुखं भुंक्त महोदयी ७४॥ ततो हितैषिणा प्राण-धारिणा पुण्यसंग्रहः । पाथेयाय प्रकर्ने व्य, एहिकामुष्मिकाय च ।।७५।। मदुक्तेऽन्यभवे चेन्न, विश्वासो युवयोर्भवेत् । तदा समक्षं सर्वेषां, प्रत्ययं कमपि त्रुवे ।।७६॥ यो विप्रः प्रवरः प्रोक्तः, पूर्व स हालिकः सह । वृष्टिव्यपगमारक्षेत्र-शुद्धश्चिकीर्षया गतः ॥७७॥ तत्र गतेन तेनैव, हलोपकरणं समं । वातेनतस्ततः क्षिप्त-मदर्शि प्रवरेण तत् ॥७८॥ हलस्य पुरतो रज्जू-मधु मुक्त्वा मृतिं गतौ । तौ श्रृगालौ समालोक्य, पतितौ प्रचुकोप सः७९॥ प्रतिघेन (प्रयत्नेन)तयोस्तन्वा, विधाय भस्रिके उभे । मेटकस्योपरिष्टात्ते, मुक्ते तेन द्विजन्मना॥८॥