________________
શાંભ-પ્રદ્યુમ્ન ચર્ચાત્ર
भगवद्भाषितं श्रुत्वा, वचनं रचनांचितं । स्थिति कृष्णस्य शुश्रूषुः सार्वभौमो व्यजिज्ञपत् ||६४॥ नवमो वासुदेवोऽयं, त्रिखंड प्रभुतायुतः । महाबाहुर्बलोपेतः संभवेद्विष्णुभावतः || ६५ ॥ किं नामका पुरी तस्य तत्सुतोऽपहृतः कथं । केन प्राग्जन्मवैरेण, तत्सर्वं मे प्रसादय ||६६ ||
२२०
ભગવતે ભાખેલા મધુર વચનનું શ્રવણુ કરીને કૃષ્ણની સ્થિતિને જાણવાની ઈચ્છાથી ચક્રવતી એ ભગવ’તને વિજ્ઞપ્તિ કરીઃ-ભગવદ્, તે ત્રણખંડના અધિપતિ નવમા વાસુદેવ મહાબળવાન અને તેમનુ વાસુદેવપણુ કેવુ' હાય ?તેની નગરી કેવી હાય ? અને તેના પુત્રનુ અપહરણ તેના પૂર્વ જન્મના કયા વૈરીએ કર્યુ છે તે સઘળા વૃત્તાંત જણાવવા આપ કૃપા કરો.
पृष्टे सतीतिः षट्खंड – भर्त्रा शुश्रूषया तदा । जिनेन जगदे यर्हि, शुश्रूषा ते तदा शृणु ॥६७॥ कृष्ण इत्याख्यया ख्यातो, द्वारवतीपुरीपतिः । तस्यास्ते रुक्मिणी देवी, देवीरूपाधिकद्युतिः ॥६८॥ तया प्रासूयतादित्य - प्रद्योतप्रस्फुरद्वपुः । तनयो विनयोपेत, आजन्मतोऽपि भाग्यवान् ॥ ६९ ॥ तद्वर्धापनिकां दातु —मागुर्दास्यस्तदंतिके । तेन तासां ददेऽदभ्रं द्रविणं निरुपद्रवं ॥ ७० ॥ संजाते दिवसे षष्टे, निजांगजदिदृक्षया । रुक्मिणीनिलयं प्रीत्या, जग्मिवान् पुरुषोत्तमः ॥ ७१ ॥ विनयः प्रतिपत्तिश्च, विष्णोस्तयापि निर्मिता । स्थित्वा सोऽपि सुतं तत्रा - नायय दर्शनोत्सुकः॥७२॥ रुक्मिण्यापि स्वहस्ताभ्यां, पुंडरीकाक्षहस्तयोः । चिंतामणिरिवात्मीयः, सुतो दत्तः समीक्षितुं ॥७३॥ द्योतयंतं दिशः स्वांग — द्युतिभिर्वीक्ष्य भानुवत् । भूयात्प्रद्युम्ननामाय - मित्युक्त्वा तं ददौ हरिः ७४ द्राक् प्रतिदीयमानः सः, रुक्मिणीकरयोः शिशु । जह्रे प्राग्जन्मवैरेण, विचालाध्धूमकेतुना ।।७५। हृत्वा विद्वेषतस्तेन, गते वैताढयपर्वते । टंकाख्यायाः शिलायाश्रो - परि मुक्तः स मृत्यवे ॥७६॥ तस्यायुषा शिशोस्तत्रा - गमद्विद्याधराधिपः । कालसंवर संज्ञाको, युक्तः कमलमालया ॥७७॥ विद्याधराधिपेनात्म – नगरं प्रति गच्छता । विमानस्तंभनात्प्रातस्तेजस्वी ददृशे शिशुः ॥ ७८ ॥ विमानात्स समुत्तीर्य, तं समादाय बालकं । पत्न्याः कमलमालाया, अपुत्रिण्याः समर्पितः ॥ ७९ ॥ वर्ततेऽस्य सुताः पंच — शतानि शौर्यशालिनः । तेभ्योऽयं पालकत्वेन, हीनो किंचित्भविष्यति ८० ॥ भविष्यति तदा दुःखं, मदीये मम मानसे । तत्सोढुं शक्ष्यते नैव ततोऽस्याग्रहणं वरं ॥८१॥ चितयंतीति दुःखेन, पुत्रस्यात्मन्यसंभवात् । पतिना दीयमानं तं, बालकं नाग्रहीदियं ॥८२॥ तदा जगाद तां पत्नीं, विद्याभृत्कालसंवरः । कथं प्रिये न गृह्णासि, बालकमेनमद्भुतं । । ८३ ॥ ततः कमलमालोचे, स्वामिंस्तव सुता मताः । संति पंचशतीमानाः, पुरस्तेषामयं च किं ॥ ८४ ॥ मया स्वीकृतमेतं च पुत्रं त्वं मन्यसे न हि । तदा तु प्रत्युत क्लेशः, स्वीकृत एव केवलं ॥ ८५ ॥ श्रुत्वेत्यूचे स यद्येवं, त्वच्चितेऽस्ति विचारणा । भूयादद्यप्रभृत्यस्य यौवराज्यं मयार्पितं ॥८६॥