________________
सा-६
द्वितीयाच्च तृतीयस्मा–रक्रोशांतरं प्रवर्तते । स्वरूपं पूर्ववच्छेष—मन्यद् ज्ञेयं विचक्षणैः।।५७॥ सोपानैर्दशसहस्रः, प्रथमो भाति वप्रकः । यो निःश्रेणिरिव ख्यातो, लोकानां मुक्तिगामिनां॥५८॥ पश्चाशद्धन्वभिर्गत्वा, समा भूमिः प्रवर्तते । पंचसहलसोपान-द्वितीयो भाति वप्रकः ॥५९॥ गत्वा धनूंषि पंचाश-त्प्रतरः प्रविराजते । पंचसहस्रारोहण-स्तृतीयोऽप्यस्ति वप्रकः ॥६०॥ पडधनुःशतकैरेकं, शोभनं पीठमद्भुतं । चतुरिं ससोपानं, मध्ये पीठं मणीमयं ॥६१॥ जिनदेहप्रमाणेन, समुत्थितं विराजते । धनुःशतं पृथुदीर्घ सार्धक्रोशद्वयान्वितं ॥६२॥ द्वादशगुणमुच्च स्या-ज्जिनेश्वरशरीरतः । अधिकयोजनपृथुरशोकपादपारुणः ॥६३॥ देवच्छंदो भवेत्तत्र, चतुःसिंहासनान्वितः। पादपीठसमन्वीतः, संस्थातुं जगदीशितुः ॥६४॥ रेजे तदुपरिछत्र–चतुष्टयं ध्वजान्वितं । प्रतिरूपत्रिकं चाष्ट, द्वे द्वे चामरधारिणः ॥६५॥ पुरो हेमारविंदस्थं, धर्मचक्रचतुष्टयं । सच्छवाः कलशाः केतु-पांचाल्यादिविभूषणाः ॥६६॥ प्रतिद्वारं मणिभ्राज-तोरणत्रितयं ततः । कुर्व ति व्यंतरास्तत्र, धूपघटीत्रयं तथा ॥६७।। सहस्रयोजनदंडा–श्चत्वारः संति केतवः । वर्धमानगजसिंह-सत्कुभादिसमन्विताः ॥६८॥ मानमेतदशेषं च, ज्ञेयं सूत्रोदितं बुधैः । प्रभुः प्रदक्षिणावर्ते-स्तिष्टत्येवासने वरे ॥६९॥ श्रीतीर्थाधिपतिः पाद-पीठस्थापितपादकः । तीर्थाय नम उक्त्वेति, धर्म वदति पर्षदि।।७०॥ मुनिर्वैमानिकी साध्वी, ह्याग्नेयां विदिशि स्थिताः । भवनज्योतिव्यंतर—योषित्तिष्टति नैऋतौ।७१। भवनव्यंतरज्योति-देवा वायुदिक् श्रिताः। वैमानिकेशमय॑स्त्री-वर्ग ईशानकोणके ॥७२॥ साध्व्यो देव्यश्चतस्रोऽपि, श्रृण्वंत्यूध्वंस्थिता वृषा साधुमहँस्त्रियो देवाः, स्थिताः प्रथमवप्रका७३। तथा द्वितीयवप्रांते-तिर्यचः सकला अपि। अधस्तृतीयवप्रांते, तिष्टेति वाहनादिकं ॥७४॥ भवेतां चतुरस्ने च, द्वे वाप्यौ च मनोरमे । एकैका वापिका वृत्ता, विभाति कोणसंस्थिता।।७५॥ पीतवर्णाः सुराः श्वेता, व्यंतरास्तत्र वपके । ज्योतिष्का भवनाधीशा, रक्तश्यामलवर्णकाः ॥७६॥ धनुदंडसमन्वीतौ, सोमयमौ च निर्जरौ । पाशगदाकरौ भातः, पाशवैः श्रमणाभिधौ ॥७७॥ नामतो जयविजयौ, देवौ जितपराजितौ । वलक्षारुणपीताग्र-श्यामद्युतिविराजितौ ॥७८॥ देवी युगलसंयुक्ता, अभयांकुशधारिणी । पाशमकरहस्ता च, तिष्ठति हैमवपके ॥७९॥ सुरतुंबरूखट्वांग-कपालिनःसमौलयः । तृतीयवप्रतो बाह्ये, तिष्ठति द्वारपालकाः ॥८॥ प्रोक्ताया रचनायाश्च, स्वनेत्राभ्यां प्रदर्शनात् । शोभां समवसरणे, व्यजानादधिकां मुनिः।।८१॥ धन्योऽहं भरतक्षेत्र, मया येन समेत्य च। दृष्टादृष्टचरी चारू, रचनेयमिहाद्भुता ॥८२॥ वरं दैत्यारिणा साधं, मैत्नी मे समजायत । वरं तस्यापि पुत्रस्या–पहारो दुःखकारकः ॥८३॥ यतस्तस्य विशुद्धयर्थ-महमत्र समागतः । समेतेन मया दृष्टः, श्रीसमवसृतौ प्रभुः ॥८४॥ प्रदक्षिणात्रयीं दत्वा, कृत्वा च मस्तकेंजलिं । सीमंधरजिनाधीश, मुनिः स्तोतुं प्रचक्रमे ॥८५॥