________________
स
-५
१४५
प्रभूतं कटकं दृष्ट्वा, बलिनि त्वयि सत्यपि । बिभेति हृदि चेदेषा, तव शौर्येण किं वद ॥ ३६॥ कथंचिदपि तद्विष्णो ! समाश्वासय सुंदरीं। एषापि प्रत्ययं विद्या-त्तवातुलबलस्य च ।। ३७॥ इत्युक्तोऽभ्यदधद्विष्णुः, समाश्वासयितुं हि तां । विखिन्ना सर्वथा माभूः, सुश्रु त्वमपि संप्रति॥ ३८॥ अंधकारेण सादृश्यं, दधानं प्रबलं बलं । निरीश्य सहसारीगां, हे देवि त्वं वि भेषि किं ॥ ३९॥ एतस्मिन् कटकाकाशे, मयि सूर्ये समुद्गते । सहसैव दिगंतेषु, तत्सर्वमपि यास्यति ॥ ४० ॥ यदीच्छा तव चित्ते स्यात्, पश्यंत्यामेव हि त्वयि।प्रेषयामि बलं चैत-त्सनायकं यमालये ।। ४१॥ स्वार्थसिद्धिकृते चित्तो—न्नतिः कस्य समस्ति नाविदंतीति हरिग्रोक्ता-प्येषा खेदं मुमोचन ।। ४२ ॥ तदादाय करात्तस्या, मुद्रिकावजरत्नकं । लीलयैय मुकुंदेन, चूर्णीचक्रे चिरंतनं ॥४३॥ तच्चूर्णेनातिसूक्ष्मेण, स्वस्तिकः स्वस्तिकल्पकः।तस्या हस्ते मुकुंदेना-लिलिखे प्रत्ययाप्तये ॥ ४४ ॥ एकपंक्तिगतान् सप्त, तालांश्च पुरतः स्थितान्।अर्घचद्रेण गोविंद, ईक्षुखंडानिवाच्छिदत् ॥४५॥ लोकातिगं बलं वीक्ष्य, रुक्मिणी निजभर्तरि।प्राप्ताविस्मयतां चित्ते-ऽचिंतयच्छक्तिमद्भुतां ।। ४६॥ ईदृग्समस्ति चेत्प्राण-वल्लभस्य पराक्रमः । कोपेन मावधीदेष, तर्हि मे तातबांधवौ ॥ ४७ ॥ चिंतयंतीति चित्ते सा, दुःखिनी पुनरप्यभूतापायसो हि भवेतत्स्त्रीणां, पितृबंधू अतिप्रियौ ।। ४८॥ मच्छक्तिदर्शनेनापि, म्लानमुख्येव यद्यसौ । तत्पृच्छाम्यहमेतस्या, दुःखं किं वर्तते तव ।। ४९॥ मत्वेति सा मुकुंदेन, पृष्टाद्यापि किमीदृशी।नूतनायाः स्त्रियाश्चित-स्थैर्य कार्य हि कोविदैः॥५०॥ उच्यमाने मया माभू-त्काचिदस्य विचारणा।कल्पमानेति नाजल्प-त्सा प्रतिवाक्यमीशितुः॥५१॥ पप्रच्छ पुनरप्येष, कथं प्रतिब्रवीषि न । इत्युक्ता सा विनीतात्रुः, पातयंती जगौ हिया ।। ५२ ॥ स्वामिस्तवातुलं स्थाम, चमत्कारकरं भुवि।कारुण्येन त्वया मोच्यौ, युद्धे मे पितृबांधवी ।। ५३॥ एतावदेय याचेऽहं, सांप्रतं युष्मदंतिकात् । तयोरभयदाने मे, वचः प्रदीयतां प्रभो ! ॥५४॥ ख्यातिमंतं विहायापि, शिशुपालं मदोद्धतं । यदयमुररीचक्रे, मामेवानुपलक्षितां ।।५५॥ मय्यवैकांतरागिण्या, अस्या एवाद्यवासरात् । वचस्तर्हि मया मान्य-मिति ते नाप्यदायि तत् ५६॥ व्याचष्ट रुक्मिणी हृष्टा, प्रकुष्टा स्पष्टवाचया । जयो भूयाच्च ते नाथ, संग्रामे रिपुपूरिते।। ५७॥
દેડતા આવી રહેલા એક બાજુ શિશુપાલના સૈન્ય અને બીજી બાજુ ભીમરાજા અને રૂકિમકુમારના સૈન્ય, મધપૂડો જેમ માખીઓથી વીંટળાઈ જાય તેમ રામકૃષ્ણને ચારે બાજુથી ઘેરી લીધા.
આ પ્રમાણે પ્રબલ સૈન્યથી ઘેરાયેલા રામકૃષ્ણને જોઈને રુકિમણીના હૃદયમાં ખૂબ ચિંતા થઈ. “અરેરે, હું જગતની સ્ત્રીઓમાં કેવી મંદભાગી છું કે મને ગ્રહણ કરતાની સાથે જ આ ૧૯.