SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४६५ सम्यक्त्वमाहात्म्ये अमरदत्तभार्याकथानकम् इदं दुष्कर्मणस्तस्य, फलं ते किञ्चनोदितम् । व्रतं तु जैनमादाय, तत् सर्वं क्षपयाऽधुना ॥२३६॥ अन्यथा पुनरद्यापि, दर्शयिष्यति तच्चिरम् । दुःखभारं यतः कर्मपरीणामोऽतिदारुणः ॥२३७॥ ततः सा प्राह 'भगवन्नेवमेतन्न संशयः । दुःखं चैतावदालोक्य, गेहे मम रतिः कुतः ? ॥२३८॥ तन्नाथ ! भवदावासी, दह्यमानां रयेण माम् । व्रतामृतेन संसिच्य, निर्वापय दयामय !' ॥२३९॥ एवमुक्तवतीमेनां, भववैराग्यभाविताम् । मुनिः प्रव्राजयामास, विधिना विधिकोविदः ॥२४०॥ तदा राजापि सामन्ताद्यन्वितोऽमरदत्तयुक् । निविण्णमानसो दीक्षां, प्रतिपेदे जिनोदिताम् ॥२४१।। सुन्दराख्यप्रवर्त्तिन्याः, पार्श्वेऽथ विमला मुंनी । अधीत्यैकादशाङ्गानि, तपः कृत्वा च निर्वृता ॥२४२॥ नरनाथोऽमरदत्तश्चैतावाचीर्णसव्रतौ । ब्रह्मलोकाह्वये कल्पेऽभूतां देवौ महद्धिकौ ॥२४३।। भव्या ! अमरदत्तस्य, पत्न्या माहात्म्यमद्भुतम् । एवं निशम्य सम्यक्त्वे, स्थिरं चेतो विधीयताम् ॥२४४॥ मिथ्यात्वं कुगतिप्रदान[नि]पुणं, प्राप्तं स्ववंशक्रमादप्युत्सृज्य विशुद्धबुद्धिनिधयो, ये सद्गुरोः सङ्गतः । १. भवदावाग्नितापे । २. साध्वी ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy