________________
४६४
श्रीअजितप्रभुचरितम् सर्गः- ७
अथ भूमीपतिस्तस्य, हृदयस्यैकतानताम् । ज्ञात्वाऽन्वमंस्त दीक्षायै, वीक्षायै निर्वृतिश्रियः ॥२२५।। ततः सा नरनाथाद्यैः, प्रस्फुरद्विस्मयैर्मुहुः । स्तूयमानाऽन्वीयमाना, पुरं संवेगमाश्रिता ॥२२६।। गगनस्थैः सुरैः पुष्पवृष्टिं ध्वानं च दुन्दुभेः । तन्वद्भिरन्विता प्राप, सूरीणामन्तिकं रयात् ॥२२७।। युग्मम् ॥ नत्वाऽथ सूरिपादान् सा, समं भूमिधवादिभिः । उपविश्योचिते स्थानेऽशृणोद्धर्मं सुशर्मदम् ॥२२८॥ पप्रच्छ समये चैवमसद्भूतमिदं मया । कौलीनं दारुणं प्रापि, कुतः साधु[धु]रन्धर ! ? ॥२२९॥ श्रुतोपयोगविज्ञातप्राग्भवाः सूरयोऽभ्यधुः ।। भद्रे ! सपत्न्यां प्राग्जन्मन्यभवत्तव मत्सरः ॥२३०।। अभ्याख्यानं ततस्तस्या, अदीयत तदा त्वया । 'परपुंसा समं दृष्टा, मयेयमिति' दुःसहम् ॥२३१॥ भर्ताऽतिवल्लभत्वेन, मेने च तव तद्वचः । तां च निःसारयामास, भृशं निर्भय॑ मन्दिरात् ॥२३२॥ ततस्तां रुदतीं दुःखविवशां वीक्ष्य निर्भरम् । कृपायां प्रादुर्भूतायामभाणीद्भवती पतिम् ॥२३३।। 'एवमेव मयाऽमुष्या, अभ्याख्यानमसूयया । अदायि नाथ ! तत् सर्वो, मन्तुर्मे क्षम्यतामयम्' ॥२३४॥ ततः सोऽपि वचस्तत्ते, दृढस्नेहादलङ्घयन् । आनिन्ये तां गृहे भूयोऽपनीतशुचमादरात् ॥२३५।।