SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४५७ सम्यक्त्वमाहात्म्ये अमरदत्तभार्याकथानकम् एतदेवाधुना शिक्षे, ततः प्रतिपदं तथा । दूषयिष्यामि न यथा, बालेयं प्रतिवक्ष्यति ॥१५१॥ इति ध्यात्वा स साधूनां, पादमूलमुपागतः । पूर्णदम्भेन विनयं, कुर्वन्नारब्ध शिक्षितुम् ॥१५२।। पश्चाच्च मानसे तस्य, जिनधर्मसितच्छदः । बाढं स्थैर्यमुपेयाय, कटरे कर्मलाघवम् ॥१५३॥ अन्यदा चैष सूक्ष्मार्थविचारविलसद्रसः । दृष्टः समन्तभद्राख्यसूरीणां सन्निधौ तया ॥१५४।। संवेगशालिनं ज्ञानाभ्यासवासनयाऽन्वितम् । विनयैकपरं चैनं, सा निरीक्ष्य विसिष्मिये ॥१५५।। भद्र ! धर्मविचारे ते, स्पृहाऽद्याप्यस्ति किं त्विति । पृच्छन्त्यां तस्यां तत्राऽऽगाद्विशङ्कश्रेष्ठिराडपि ॥१५६।। प्रत्युवाचाऽमरोऽप्येवं, 'शुद्धाकरसमुद्भवे । मणौ विचारणां मन्दमतीन् मुक्त्वा करोति कः ? ॥१५७॥ पूर्वापराविरुद्धार्थे, प्रमाणैः सुप्रतिष्ठिते । क्रोधा-ऽहङ्कार-कपट-लोभलेशविवर्जिते ॥१५८॥ हृषीकविजयोपायकलिते ध्यानबन्धुरे । सर्वज्ञदेशिते धर्मेऽनन्तशर्मप्रदायिनि ॥१५९॥ विमुच्याऽज्ञाततत्त्वार्थान्, दुर्गदुर्गतिगामिनः । विचारणां विधत्ते कः, कुविकल्पप्रकल्पनैः ?' ॥१६०।। विशेषकम् ॥ एवं तस्य गिरं सारां, शृण्वती हर्षपोषभाक् । अध्यासीद्विमलयशा, नूनं धर्मोऽस्य मानसे ॥१६१॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy