SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४५६ श्रीअजितप्रभुचरितम् सर्गः- ७ चित्तं रागादिभिः क्लिष्टमलीकवचनैर्मुखम् । जीवघातादिभिः कायो, गङ्गाऽप्यस्य पराङ्मुखी ॥१४१॥ चित्तं शमादिभिः शुद्धं, वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः कायः, शुद्धो गङ्गां विनाऽप्यसौ ॥१४२॥ अपरं चयुक्तलाङ्गल-भू-लोह-तिलादीनां मतं त्व[या] । यद्दानं जीवघातैकहेतुस्तद् दृश्यते स्फुटम् ॥१४३॥ तेन दानेन संसारो, वृद्धिमेव समश्नुते । मृत्युनिवर्त्तते नैव, कालकूटस्य भक्षणात् ॥१४४।। तस्माच्छिवप्रदं दानं, तदेव श्लाघ्यते बुधैः । प्रदत्तं केवलं धर्मोपग्रहं विदधीत यत् ॥१४५॥ तस्माच्छिवेन बुद्धेनाऽर्हता वाऽस्तु प्रदर्शितः । धर्मः स एव यत्र स्युः, सदाचारा दयादयः ॥१४६।। यद् ब्रूषे चोत्तमैर्भूपमुख्यैरेष समाश्रितः । तदयुक्तं यतस्तेषामुत्तमत्वं कुतो ननु ? ॥१४७।। न हि धर्मविचारेऽत्र, रूप-रै-यौवनादिभिः । उन्मत्ता उत्तमा ग्राह्याः, किन्तु ये तत्त्वदर्शिनः ॥१४८॥ भूपादयोऽपि ये केचित्, सुधियो भवभीरवः । ते प्रपन्नाः प्रवचनं, जैनमेव शिवेच्छवः' ॥१४९॥ इति युक्तोक्तिभिस्तन्व्या, विहितोऽसौ निरुत्तरः । हृदि दध्यावहो ! दाक्ष्यममुष्या जिनशासने ॥१५०॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy