SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४५३ सम्यक्त्वमाहात्म्ये अमरदत्तभार्याकथानकम् पराभिप्रायतस्तच्चेन्मतं तर्हि महाशय ! । प्रमाणमप्रमाणं वाऽन्यमततोऽभिधीयताम् ॥११२॥ प्रमाणं चेत् परलोकादिकं तर्दुररीकुरु । अथाप्रमाणं तत्तेन, तनिषेधोऽपि दुष्करः ॥११३।। अहंप्रत्ययसंवेद्यः, कर्ता भोक्ता च कर्मणाम् । अनादिमान् परलोकयायी जीवः प्रपद्यताम् ॥११४॥ तदहर्जातबालस्य, स्तनेला प्रथमा ध्रुवम् । पूर्वाभिलाषपूर्वाभिलाषत्वादिति मानतः ॥११५॥ अनाद्यनेकजन्मानुयायिचैतन्यसिद्धितः । भूतेभ्यो जायमानस्य, चैतन्यस्य विबाधनम् ॥११६॥ युग्मम् ॥ अचेतनेभ्यो भूतेभ्यः, कार्यं चैतन्यलक्षणम् । जायतेऽननुरूपं यदिति प्रामाणिकी न वाक् ॥११७|| मृतावस्थायां भूतेषु, तदवस्थेष्वपीह यत् । चैतन्यं नोपलब्धं तत्तदुत्पादो न भूततः ॥११८॥ ततो निश्चिनु चैतन्यं, पूर्वजन्मान्तरागतम् । कर्मावष्टब्धमन्यान्यशरीरोत्पादनक्षमम् ॥११९॥ तदेवं परलोका-ऽऽत्मा-ऽदृष्टादीनां प्रमाणतः । सिद्धौ सारं तदेवेह, सुकृतं यद्विधीयताम् ॥१२०॥ विरतिविषयग्रामात्तपसा कृशिमा तनोः । सर्वाङ्गिषु कृपा चेति, धर्मः सुगतिकारणम् ॥१२१॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy