________________
श्री अजितप्रभुचरितम् सर्गः - ७
४५२
धर्मा-ऽधर्मौ हि वर्ण्येते, जीवाधारौ सुबुद्धिभिः । जीवस्तावत् प्रत्यक्षेणाऽनुपलब्धेर्न विद्यते ॥ १०१ ॥ अन्यानि तु प्रमाणानि, व्यभिचारीणि तैस्ततः । कुतोऽर्थप्रतिपत्तिः स्यान्नेत्रैरिव सकामलैः ॥१०२॥ यदक्षगोचरातीतं तन्नास्ति खरशृङ्गवत् । जीवस्तथा चेति सिद्धं, जीवाऽसत्त्वं प्रमाणतः ॥१०३॥ जीवाभावे परं लोकं, को गन्ता क[श्च] भोक्ष्यते । धर्माधर्मफलं तन्वि !, मा मुहस्तन्मुधा हृदि ॥ १०४॥ पृथ्व्यप्तेजोऽनिला -ऽऽकाशलक्षणाद् भूतपञ्चकात् । चेतनेयं समुद्भूता, जीवभ्रान्तिं तनोत्यहो ! ॥ १०५ ॥ मद्याङ्गेभ्यो यथा दृष्टा, मदशक्तिस्तथा न किम् । भूतेभ्यश्चेतना स्थानगमनाऽऽसनकारणम् ॥१०६॥ तद्यौवनभरेऽमुष्मिन्, सारं विद्ध्येतदेव हि । यद् भुज्यते पीयते वा, रम्यते वा यदृच्छया' ॥१०७॥ स्मित्वाऽथोवाच विमलयशा 'आलं किमात्थ भोः ! । धर्माधर्मौ तदाधारो, जीवश्चास्त्येव निश्चितम् ॥१०८॥ आरोग्य-धन-वैदुष्य-कीर्त्यादेः कार्यलिङ्गतः । धर्मोऽधर्मो विपरीतादस्ति धूमादिवाऽनलः ॥ १०९ ॥ न च वक्तव्यमध्यक्षात् परं मानं न विद्यते । भवत्पितामहादीनामप्यभावप्रसङ्गतः ॥ ११० ॥
अदृष्टपरलोकादिभावं त्वमुपीतरत् । प्रत्याययस्यनुमानप्रमाणेनैव सन्मते ! ॥ १११ ॥