________________
२८८
श्री अजितप्रभुचरितम् सर्गः - ३
आयोजनं ययौ वाणी, सर्वभाषानुगा प्रभोः । भामण्डलं पृष्ठतश्च, स्पर्द्धते स्म गभस्तिना ॥ ६९८॥
योजनप्रमितेऽप्यस्थुर्भूभागे प्रभुवैभवात् । कोटाकोटिमितास्तिर्यङ्-मनुष्य - त्रिदिवौकसः ॥ ६९९ ॥
अर्हद्विहारपूतायां भुवि वैर - रुजेतयः । वृष्ट्यतिवृष्टि-दुर्भिक्ष-मार्यः स्वपरचक्रभीः ||७००|| नोत्पद्यन्ते स्म साग्रेऽपि, योजनान्ते शते खलु । कर्मक्षयोद्भवा एकादशैतेऽतिशयाः स्मृताः ॥ ७०१ || [ युग्मम् ]
व्योम्नि च्छत्रत्रयी धर्मचक्रं रत्नमयो ध्वजः । सिंहासनं चामराश्चांऽह्रिन्यासे कमला नव ॥ ७०२॥ वप्रत्रयी चतुर्वक्त्रवपुष्ट्वं चैत्यपादपः । अधोमुखाः कण्टकाश्च, नतिर्वर्त्मनि शाखिनाम् ॥७०३||
गन्धाम्बुवर्षणं चारुविचित्रसुमवर्षणम् । वातानुकूल्यं सर्वेऽपि शकुनाश्च प्रदक्षिणाः ॥ ७०४ ||
केश-रोम-नखाऽवृद्धिर्दुन्दुभेर्नाद उच्चकैः ।
जघन्यतोऽपि कोट्येका, समीपस्था दिवौकसाम् ॥७०५||
सर्वेषामिन्द्रियार्थानामृतूनां चानुकूलता । एकोनविंशतिर्देवक्लृप्ता अतिशया अमी || ७०६ ॥ एवं चतुस्त्रिंशदतिशयाढ्यस्त्रिजगद्गुरुः । यतिवृन्दवृतो भूमौ, चरन् भव्यानबोधयत् ॥७०७॥ संसारोद्भवतीव्रदुःखदवथोर्निर्वापणं तन्वतीविच्छेत्रीस्तमसां ततेः कुवलयानन्दाय गाः स्फारयन् ।