________________
व्यावर्णिताः । तत्र तत्र चानुरूपं सुन्दरं सकलरसावर्षि संवर्णनमपि पाठकहृदयकोशप्रवेशं प्रापितम् । समावेशितानि चात्र महाकाव्यनिखिललक्षणानि । इति सर्वैरेव प्रकारैरयं चरितग्रन्थः चरितग्रन्थेषुत्तमं स्थानं लम्भितः ।
इमे चाचार्यपूज्या अन्यानपि कल्पनिरुक्त-श्रीपार्श्वचरितप्रभृतीन् ग्रन्थान् जग्रन्थुः, व्यशूशुधंश्च धर्मविधिवृत्तिप्रमुखानल्पग्रन्थान् । एतेषां च सूरिवराणां ग्रन्थग्रन्थितृत्वं ग्रन्थशोधकत्वं चेदमुभयं तदपूर्वादूष्य-वैदूष्य-लोकापकारकत्वाऽन्यथानुपपद्यमानं तेषां परमकारुणिकत्वं सकलशास्त्रनिष्णातत्वं च स्पष्टं निष्टङ्कयति ।
संशोधकाश्चास्य शोधकप्रकाण्डतां गताः श्रीप्रद्युम्नसूरयः, येषां
१. यदाह धर्मकुमारपण्डितः स्वीये शालिभद्रचरित्रे प्रतिप्रक्रमम्
"श्रीशालिचरिते धर्मकुमारसुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे" अन्त्यप्रक्रमे च
"इयं कथा वृद्धकुमारिकेव सदूषणा भूषणवर्जिताऽऽसीत् । प्रद्युम्नदेवस्य परं प्रसादाद् बभूव प्राणिग्रहणस्य योग्या" ॥१५३॥ तेषां च श्रीविनयचन्द्रसूरिकृतं श्रीमल्लिनाथमहाकाव्यम्, श्रीप्रभाचन्द्राचार्यविरचितं श्रीप्रभावकचरित्रम्, श्रीदेवेन्द्रसूरिप्रणीतः श्रीउपमितिभवप्रपञ्चकथासारोद्धारः, श्रीरत्नप्रभसूरिविहिता श्रीकुवलयमालाकथा, श्रीबालचन्द्रसूरिनिर्मिता श्रीउपदेशकन्दलीटीका श्रीविवेकमञ्जरीटीका, श्रीउदयप्रभसूरिरचिता उपदेशमालाकर्णिकाटीका चेत्यादितात्कालिकबहुग्रन्थानां संशोधकत्वेन ग्रन्थसंशोधननैपुण्यम्, श्रीसमरादित्यसंक्षेपादेः स्वतन्त्रं संविधानेन च शास्त्रवैशारद्यं च सुतरां प्रतीतम् । ये पुनस्तदानीन्तनाचार्यैबाढं संमानिता बभूवुरित्यपि श्रीमानतुङ्गाचार्यविरचितश्रीश्रेयांसनाथचरित्रान्तर्गतेन
"शिष्यः श्रीकनकप्रभस्य सुकविः श्रीबालचन्द्रनुजो ज्यायान् श्रीजयसिंहतः प्रतिभया श्रीवस्तुपालस्तुतः । अस्मद्गोत्रमहत्तरः कविगुरुः प्रद्युम्नसूरिप्रभुविद्वदवृन्दकवित्वशोधनधनो ग्रन्थं मुदाऽशोधयत्" ॥१॥ इति पद्येन व्यक्तमाविर्भवति ।