SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ज्ञात्वाऽनघं पर्युषणाभिधाने कल्पस्य किंचिद् विदधे निरुक्तम्" ॥२॥ किञ्च, श्रीधर्मविधिग्रन्थवृत्तिविधायकाः श्रीउदयसिंहसूरयोऽप्येतानेवाचार्यवर्यान् महाकवित्वेन ग्रन्थशोधकशिरोमणित्वेन च प्रख्यापयन्ति, तथा च धर्मविधिप्रशस्ति: "स श्रीमाणिक्यप्रभगुरुसेवी स्वगुरुबन्धुसंमत्या । आचार्य उदयसिंहश्चक्रे श्रीधर्मविधिवृत्तिम् ॥११॥ श्रीमत्पूज्यरविप्रभमुनिपतिपदकमलमण्डनमरालः । वृत्तिमशोधयदेनां महाकविविनयचन्द्राख्यः ॥१२॥ या शासनपुष्टिपरा जननीवद् भव्यसंततिं पाति । सा श्रीशासनदेवी शिवतातिर्भवतु संघस्य ॥१६।। रस-मङ्गल-सूर्य(१२८६)-मिते वर्षे श्रीविक्रमादतिक्रान्ते । चक्रे चन्द्रावत्यां वृत्तिरियं संघसान्निध्यात् ॥१७॥" एभिः सकलैः प्रमाणैरेषां सूरिवराणां समयो द्वादशशताब्यादिभूतस्त्रयोदशशताब्द्यन्तभूतश्चेति नितरां निश्चीयते । सरसं समुपवर्णितं चात्र गगनकुसुमायमानमनोमनोरथलक्षजलसंकुलं दम्भस्तम्भानेकनकचक्रचक्रवालबलप्रबलं दुःखात्मनैकदुष्करमकरप्रकरप्रपूरितं मिथ्याहंकाराकारभूरिभूधराधृष्यकूटविकटं सर्वत्र दुर्योधक्रोधप्रसर्पत्सरीसृपसर्पणभीषणमनादिगभीरापारसंसारपारावारं संशोष्य, संभूष्य च स्वं निखिलनिर्मललोकाऽलोकलोकिन्या विज्ञानश्रिया, प्रतिष्ठाप्य च सकललोकाऽमितहितावहं संसारोत्तारकं तीर्थम्, प्रतिबोधय च गाढमिथ्यात्वनिशानिद्रावशीभूतप्रभूतभूतगणान्, उत्तार्य च कांश्चन संसारसागरात्, प्रापय्य च प्रवरशिवनगरनिकटम्, परमामनश्वरीमितरदेवदवीयसीं गरीयसी पदवी प्राप्तानां श्रीमल्लिस्वामिजिनेश्वराणामामूलचूलमदभ्रपापाभ्रधवित्रं पुष्करारिष्टमललवित्रं निसर्गगुणगणपवित्रं चरित्रम् । अन्तर्भावितानि चात्र श्रीमल्लिमित्रषट्ककथानकानि । अन्या अपि लोकप्रबोधविधायिन्यो बढ्यः कथाश्च
SR No.022696
Book TitleMallinath Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorSaumyayashashreeji,
PublisherKantivijay Ganivar Jain Granthmala
Publication Year2015
Total Pages524
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy