________________
नित्यं यः समितौ रतः कलयते सद्गुप्तिशक्तित्रयसातत्यं व्रतपञ्चवल्लभलसद्गन्धर्वगर्वोद्धुरः । श्रीमत्पूज्यरविप्रभप्रविकसत्पट्टक्षमालंकृतिः साक्षादेष नरेन्द्र एव जयति श्रीमन्नरेन्द्रप्रभः ॥७॥ दुर्वारप्रतिवादिविन्ध्यशमकृच्चान्द्रे कुले विश्रुतो देवानन्द इति प्रसिद्धमहिमोद्दामा मुनिग्रामणीः । अष्टव्याकरणाम्बुधीन् निरवधीन् शब्दोर्मिमालाऽऽकुलान् यः स्वव्याकरणप्रशस्तिचुलुकैश्चित्रं चकारोच्चकैः ॥८॥ तच्छिष्योऽजनि जागरूकमहिमा रत्नप्रभाख्यप्रभुः पट्टे श्रीकनकप्रभः प्रतिमया वाचस्पतिर्मूत्तिमान् । तत्पादाम्बुजचञ्चरीकचरित: प्रद्युम्नसूरिर्नवप्रीतिः श्रीविनयेन्दुना तदखिलं चाशोधयद् बोधये ॥९॥ पूज्य श्रीरत्न (?) सिंहसूरिसुगुरोः श्रीमन्नरेन्द्रप्रभो - रादेशाद् विनयाङ्कपार्श्वचरितत्रष्टाशया ( ? ) । गच्छोत्तंसरविप्रभाभिधगुरोः शिष्योऽल्पमेधा अपि सूरिः श्रीविनयेन्दुरेष विदधे मल्लेश्चरित्रं नवम् ॥१०॥
क्षेत्रे भारतनामके जिनपतेर्यावत् परं शासनं (?) शस्यमिदं वृषव्रजपरीपोषक्षमं वर्धते । एतद् नीरदवृन्दसुन्दरतनोः श्रीमल्लितीर्थेशितुः प्रोद्दामं रसपूरचारुचरितं तावच्चिरं नन्दतात् ॥११॥
आपादयति चात्रार्थे तैरेव निर्मितस्य कल्पनिरुक्तनाम्नो ग्रन्थस्य पाश्चात्यः
कियानंशो विशेषतो दार्ढ्यम्; स चायम्—
“सैद्धान्तिक श्रीमुनिचन्द्रशिष्याः प्राज्ञा अनूचानवरा जयन्ति । श्रीरत्नसिंहाह्वयसूरिमुख्या यच्छिष्यलेशो विनयेन्दुसूरिः ||१||
श्रीविक्रमात् तत्त्व-गुणे - न्दुवर्षे (१३२५)
चूर्ण्यादि वीक्ष्य स्वगुरोर्मुखाच्च ।
6