________________
प्रस्तावना अस्य श्रीमल्लिस्वामिचरितनाम्नो महाकाव्यस्य प्रणेतारः कविचक्रशकाः कुन्देन्दुकीर्तय आगमगगनगगनध्वजाः श्रीविनयचन्द्रसूरयः के ?, कीदृशाः?, कं च लोकं कदा स्वचरित्रपावित्र्येण पावयांचक्रिवांस ?, इति जिज्ञासमानस्य जिज्ञासाऽस्यैव काव्यस्य प्रशस्तिप्रतिष्ठितश्लोकान् दृष्ट्वैवोपशाम्यति; तथाहि -
तमोपहारी सद्वृत्तो, गच्छश्चन्द्रोऽभवद् भुवि । चित्रं न जलधी रागं, यत्र चक्रे कदाचन ॥१॥ तस्मिन्नभूत् शीलगणाभिधानः, सूरिः समापूरितभव्यवाञ्छः । यत्पञ्चशाखः किल कल्पवृक्षश्छायां नवीनां तनुते जनानाम् ॥२॥ यत्पार्वं किल देवता त्रिभुवनस्वामिन्युपेता स्वयं, पूर्वप्रीतितरङ्गितेव वचसा बद्धैव कृष्टेव च । सौभाग्याद्भूतवैभवो भवमहाम्भोराशिकुम्भोद्भवः, श्रीमानत्र स मानतुङ्गगणभृन्नन्द्यादविद्यापहः ॥३॥ यस्योच्चैः परिपाकपेशलतरां तृप्तिं प्रदत्तेऽङ्गिनां, व्याख्यापर्वणि भारती रसवती लावण्यपुण्या भृशम् । एतद् नूनमजीर्णमप्यविकलं यस्याः सुखं निस्तुषं, श्रीमानेष रविप्रभः स विजयी स्तात्सूपकारः परः ॥४॥ विविधग्रन्थनिर्माणविरञ्चिरुचिरो गुरुः । योऽभूद् रजोगुणो नैव, नालीकस्थितिमान् क्वचित् ॥५॥ श्रीमदैवततुङ्गशैलशिखरे सुध्यानलीनायुषा स्वायुःकर्मतरुप्रपातवशतो लेभे गतिस्ताविषी । भव्यव्रातमनःकुरङ्गशमकृत् तत्पट्टभूषाकरो रामः श्रीनरसिंहसूरिरभवत् विद्यात्रयीपावनः ॥६॥
१. दैवी ।