________________
२८ ] मुनिश्रीवीरशेरविजयसूत्रिता [ शेषभेदजघन्यदेवाणं पुच्छा, गोयमा ! जहन्नेणं तीसं सागरोवमाई... विजय. वेजयंतजयंतअपराजितेसु णं भंते! देवाणं केवइयं कालं ठिई पन्नता?, गोयमा ! जहन्नेणं एकतीसं सागरोवमाई" (सू०१०२/पत्र० १०७. १७८) इति।
एवं जीवाजीवाभिगम-तवृत्याविष्वपि ।
समवायाङगे पुनर्विजयादिचतुरनुत्तरनाकिनां द्वात्रिंशर. सागरोपमप्रमाणा बघन्यमवस्थितिरभिहिता। तथा च तद्ग्रन्थः-(सू० १५१/पत्र०१४०-२)
"विजयवेजयंतजयंतअपराजियाण देवा केवायं कालं ठिई पन्नता?,गोयमा! जहन्डेणं बतीसं सागरोषमाइ"इति ।
अथ शेषगाथार्द्धन शेषभेदानां जघन्यभवस्थिति दर्शयितुकाम प्रादौ तावत्पर्याप्तमेवानां योनिमत्योद्विवेदयोश्चा-ऽऽह-"पज्जत्त." इत्यादि, 'पर्याप्तयोनिमतीपु'स्त्रीणां' पर्याप्तानांपर्याप्तपञ्चेन्द्रियतिर्यक-पर्याप्तमनुष्यरूपगतिभेदद्वय- पर्याप्तसूक्ष्मैकेन्द्रिय-पर्याप्तबाद. रैकेन्द्रिय-पर्याप्तद्वीन्द्रिय-पर्याप्तत्रीन्द्रिय-पर्याप्तचतुरिन्द्रिय-पर्याप्तपञ्चेन्द्रियलक्षणेन्द्रियभेदषट्क - पर्याप्तसूक्ष्मपृथिवीकाय • पर्याप्तबादर पृथ्वीकाय-पर्याप्तसूक्ष्माप्काय-पर्याप्तबादराप्काय-पर्याप्तसूक्ष्मा. ग्निकाय-पर्याप्तबादराग्निकाय -पर्याप्तसूक्ष्मवायुकाय-पर्याप्तबादर. वायुकाय-पर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकाय -पर्याप्तबादरसाधारणशरीरवनस्पतिकाय-पर्याप्त प्रत्येकशरीरवनस्पतिकाय-पर्याप्त. प्रसकायरूपकायभेदद्वादशक - पर्याप्तसंज्ञि - पर्याप्ताऽसंजिलक्षणानां द्वाविंशतः पर्याप्तभेदानां योनिमत्योः पञ्चेन्द्रियतिर्यग्योनिमतीमनुष्ययोनिमत्याख्ययोः स्त्रियोः-पुरुषवेदस्य स्त्रीवेदस्य चेति षविशतेर्भवानां प्रत्येक जघन्यमवस्थितिः अन्तर्मुहूर्तम् अन्तर्मुहूर्त. माना भवति.पर्याप्त-योनिमती-स्त्री-पुवेदानां ततो न्यूनायुषो-असंभवे सति जघन्यायुषो यथोक्तप्रमाणत्वात् ।