SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २४ ] मुनिश्रीवीरशेखरविजयसूत्रिता [ निरय देवभेदजघन्य- इदमुक्तं भवति-शर्कराप्रमापृथिवीनरयिकाणां जघन्यमवस्थितिरेक सागरोपमम् , वालुकाप्रभानरकपृथिवीनारकाणां त्रीणि सागरोपमाणि, पप्रभानरकपृथिवीनिरयाणां सप्त सागरोपमाणि, धूमप्रमापृथिवीनरयिकाणां दश सागरोपमाणि तमःप्रमानारकाणां सप्तदश सागरोपमाणि, तमस्तमःप्रमायाश्च द्वाविंशतिः सागरो. पमाणि मवति । उक्तश्च त्रैलोक्यदीपिकायाम् 'जा पढमाए जिट्ठा,सावीआए कणिद्विआ मणिमा। तरतमजोगा एसो,दसवाससहस्स रयणाए।।२३४।। (२२०) इति। तथा जीवसमासेऽपि-(गा.२०३)" "पढमावि जमुक्कोस, बीयादिसु सा जहणिया होइ।" इति । एवमन्यत्र प्रज्ञापना-तवृत्ति-जीवाजीवाभिगम-तवृत्तितत्वार्थसूत्र-पश्चसंग्रहमलयगिरिसूरिवृत्त्यादिष्वपि ॥१२॥ .. इदानीं ज्योतिष्कसुरस्य प्रकृतमाह-"पलियस्स" इत्यादि, 'ज्योतिष्कस्य' ज्योतिष्कदेवस्य जघन्यमवस्थितिः 'पल्यस्य' पल्यो. पमस्य 'अष्टभागः' प्रष्टमश्चा-ऽसौ भागश्चाऽष्टभागः पृषोदरादिस्वादिह पूरणप्रत्ययलोपः, पल्योपमाष्टमागप्रमारणा भवति । उक्तश्च जीवसमासे-पल्लट्ठभाग पल्लं च साहियं जोइसे जहज्णियरं ।(गा.२०५/पत्र.२०१) इति । ____ एवं प्रज्ञापनाद्यन्यग्रन्थेष्वपि । एषा-ऽपि तारकदेवतापेक्षया बोध्या, तारकदेव-देवीनां जघन्यायुज्कस्य तथात्वात् । ___ उक्तश्च पञ्चसंग्रहमलयगिरिसूरिवृत्तिसाक्षिणि ग्रन्थे"पलिओवमट्ठभागो,तारयदेवाण तह य देवीणं । होइ जहन्न माउं ॥" (द्वा० २, गा० ३५/भा० १, पत्र०७२-१) इति ।
SR No.022675
Book TitleBhavsthiti Part 01
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy