________________
१२] मुनिश्रीवीरशेखरविजयसूत्रिता [ गतीन्द्रियकायभेदोत्कृष्ट
तथा जीवसमासे-ऽपि"- । एक्काहिया य एत्तो, सक्काइसु सागरुवमाणा ॥२०६।।" इति । ____एवं प्रज्ञापनाद्यन्यग्रन्थेष्वपि ।
प्रधुना-ऽनुत्तरसुराणां प्रस्तुतकायस्थितिमाचक्षते-"तेत्तीसा" इत्यादि, 'अनुत्तराणां' बहुवचनात्पञ्चानां विजय वैजयन्त-जयन्ताऽपराजित-सर्वार्थसिद्धसंज्ञकानामनुत्तरसुराणां प्रत्येक 'त्रयस्त्रिशत्' प्रयस्त्रिशत्सागरोपमाणि 'भवेत्' उत्कृष्ट भवस्थितिः स्यात्, तथैव प्रज्ञापनादिषूपलम्भात्। तथा चात्र प्रज्ञापनासूत्रम्-"विजयधैजयंत-जयंत-अपराजितेसुण भते ! देवाणं केवइयं कालं ठिई पन्नता?, गोयमा ! जहन्नेणं एक्कतीसं सागरोवमाई, उक्कोसेणं तेत्तीसं साग. रोवमाई... । सव्वसिद्धगदेवाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! प्रजहण्णुक्कोस तेत्तीसं सागरोवमाई ठिई पन्नत्ता, (सू.१०२/पत्र०१७८-२) इति ।
तुशब्दो विशेषद्योतनपरः । विशेषश्चायं तत्त्वार्थसूत्रतद्भाष्यकारादीनामभिप्रायेण विजयाद्यनुत्तरसुरचतुष्कस्य प्रत्येक मुत्कृष्टभवस्थितित्रिंशत्सागरोपमाणि भवति ।
यदुक्तं तत्त्वार्थसूत्रे-"प्रारणाच्युतादूर्ध्वमेकैकेन नवसु अवेयकेषु विजयादिषु सर्वार्थसिद्ध च ।" (अ०४,सू०३४/भा०१,पत्र-०३११)इति
तथैव तद्भाष्ये-ऽपि-"विजयादिषु चतुर्वप्येकनाऽधिका द्वात्रिंशत् साप्येकेनाऽधिका त्वजधन्वोत्कृष्टा सर्वार्थसिद्ध त्रयस्त्रिशदिति ।" (अ०४,सू०३८/मा०१,पत्र०३११) इति ।
एवं सामान्येन देव दानामुत्कृष्टभवस्थितिः प्रोक्ता, विशेषतस्तु प्रतिप्रस्तटे भिन्न-भिन्नप्रकारा साऽस्ति । सा चेह ग्रन्थः गौरवभयान्नोक्ता बहत्संग्रहण्यादिषु दर्शनीया ॥५-७॥