________________
भवस्थितिः ] स्वोपा-प्रेमप्रभावृत्तिपरिकलिता भवस्थितिः ।
सारमहियं" (गा०२०४/पत्र. २००) इति । तथा प्रज्ञापनासूत्रे. ऽपि-"मवणवासीण देवाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहण्णेण दस बाससहस्साई, उक्कोमेणं साइरेगं सागरोवम' (सू०१७ /पत्र०१७०-२)इति । एवमन्यत्रा-ऽपि ।
इदानी व्यन्तरदेवमागंणायाः प्रस्तुतं स्तौति- “पल्लं" इत्यादि, 'व्यन्तरसुरस्य' व्यन्तरदेवस्योत्कृष्टभवस्थिति: 'पल्वं'. "देवो देवदत्तः" इति न्यायात् पल्योपमं भवति, तथैवोपलम्भात् । उक्तश्च जीवसमासे-'पल्लो पुण वंतरसुराणं ॥२०४॥" इति ।
तथा प्रज्ञापनायामपि.-"वाणमंतराणं भंते! देवाणं केवइयं कालं ठिई पनत्ता ?, गोयमा ! जहन्नेणं इस वाससहस्साई उकासेणं पलिओवमं," (सू० १९०/पत्र १७४-२) इति ।
एवमन्यत्रा-ऽपि । अधुना ज्योतिष्कसुरमार्गणाया पाह-"पलिओवम." इत्यादि, ज्योतिदेवस्य' ज्योतिष्कसुरभेदस्योत्कृष्ट भवस्थितिः 'पल्योपममभ्यधिक' साधिकपल्योपममिता ज्ञातव्या। यदुक्तं जीवसमासे'पल्लं च साहियं जोइसे' (गा. २०५) इति । "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायेन "जोइसवरिसलक्खाहियं पलिय". इति वचनाद् वर्षलक्षाभ्यधिकपल्योपमप्रमाणा ज्ञातव्या,शास्त्रेषु तथैवोपलम्भात् । उक्तश्च प्रज्ञापनायाम्-"जोइसियाणं देवार्ण पुच्छा गोयमा ! जहन्नेणं पलिभोवमट्ठभागो उक्कोसेणं पलिभोवम वाससयसहस्समन्माहियं,' (सू० १०१/पत्र. १७४.२) इति ।
एवमन्यत्राऽपि।
इयमपि चन्द्रापेक्षयाऽवगन्तव्या, सूर्यादीनां सहस्रवर्षाधिकपल्योपमादिकत्वात् । यदुक्तम्