SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ५ सर्गः ] बालभारतम् । वेगादमूर्नृपसमूहचमूर्विमूल्य भीमो जिगाय समरप्रसरेण शल्यम् । चापं तमेव युधि देवपतेः सुतोऽयमासाद्य कर्णमपवर्णमथ व्यत ॥ १११ ॥ नायं नयो भुजभृतामिति ते निकामं दामोदरेण युधि तत्त्वविदा निषिद्धाः । जग्मुर्नृपा निजपदान्यथ तेऽपि पाण्डु पुत्राः कुलालकुलसीम्नि समं कुमार्या ॥ ११२ ॥ तानागतानथ जगाद पृथाद्य भिक्षा भोज्यैव पञ्चभिरभेदपरैर्मिलित्वा । मा भूदसत्यवचना जननीति तेऽपि पञ्चापि तत्परिणये समयं वितेनुः ॥ ११३ ॥ आलोक्य भूपतनयामथ किं मयोक्तमित्याकुलां स्वजननीं प्रतिबोध्य धीराः । स्नेहादुपेत्य हरिसीरियुगे प्रयाते भिक्षार्थिनः पुरि गताश्च समागताश्च ॥ ११४ ॥ मातुः पुरस्तदनु धर्मसुतान्विताया भिक्षां तदा निजनिजाममुचन्दिनान्तेः । दृष्ट्वापदो द्रुपदभूपसुता न ताप मन्तस्तदाप किमु वच्मि मनः सतीनाम् ॥ ११९ ॥ कृत्वा बलिं द्विजजनाय वितीर्य भिक्षां दत्वाथ याचककुलाय ततः कुलीनाः । कुन्तीगिरा द्रुपदसूरदितान्नम भीमाय शेषमकरोन्मुदिता षडंशम् ॥ ११६ ॥ सुप्तास्ततो निशि भटा दिशि दक्षिणस्यां कृत्त्वा शिरांसि कुशकल्पिततल्पभाजः । ६५
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy