________________
काव्यमाला। वेगादलक्ष्यसंधानाकर्षमोक्षविधि शरैः। पातालगामिभिः कर्णकुञ्जोत्थभुजगैरिव ॥ ३८ ॥ एकान्ते वपुषा कान्तमभ्यसन्तमिति स्वयम् । सदर्पमिव कंदर्प विजयाय पिनाकिनः ॥ ३९ ॥
(डिरादिकुलकम्) चिन्तामथ चकारायं कारायन्त्रितशात्रवः । ईदृक्पुत्रैविना राज्ञां वृद्धानां दुर्धरा धरा ॥ ४० ॥ अपि बालोऽयमालोक्य पृथिवीपालमग्रतः । प्रविवेश द्रुतं गाङ्गे जलमानुषवज्जले ॥ ४१ ॥ किमेतदिति संभ्रान्तः सन्निहैव महीपतिः । नद्यामुद्यस्त्रियावक्रपमं दृषट्पदैः पपौ ॥ ४२ ॥ समं तेन कुमारेण निःससार नदी रयात् । बालासौ बालसूर्येण दिनश्रीरिव वारिधेः ॥ ४३ ॥ लब्धचिन्तामणि दुःस्थं सद्यः प्राप्तामृतं मृतम् । जातपुत्रमपुत्रं तां दृष्ट्वा तुष्ट्या जिगाय सः ॥ ४४ ॥ अश्रुवेपथुरोमाञ्चस्वेदानभिनिनाय सा। . अप्रेमापि नृपं प्रेक्ष्य नदी जलकणाञ्चिता ॥ ४५ ॥ अथाचख्यौ मृगाक्षीयं प्रीतं प्रति निजं प्रियम् । मयासौ जननीपाल्याद्वाल्यादुत्तारितः सुतः ॥ ४६ ॥ शास्त्राणि गुरुशुक्राभ्यां शस्त्राणि भृगुसूनुना । साङ्गान्वेदान्वसिष्ठेन शिक्षितोऽयं तवात्मजः ॥ ४७ ।। देवैः कृतवत इति श्रुतो देवव्रताख्यया । मयायं गङ्गया जातः ख्यातो गाङ्गेय इत्यपि ॥ ४८ ॥ असौ शास्त्रधनुर्वेदवेदज्ञो राजधर्मवित् ।
गृह्यतामष्टमः सूनुरित्युक्त्वान्तरधत्त सा ।। ४९ ॥ १. 'कुण्डोत्थ' क, 'कुम्भोत्थ' ख. २. षड्डिरादि' इति क-ख-पुस्तकयो स्ति. ३. 'त' ग. ४. 'जलकणाङ्किता' क. ५. 'आचचक्षे' ग. ६. 'जननीपाल्यां बाल्यां' क.