________________
आस्तीकपर्व-१सर्गः) बालभारतम् ।
तक्षकेण शरण्यस्त्वत्पितामहपितामहः । चक्रे शक्रः स किं मान्यः कृष्यः सोऽपि सहैव किम् ॥ ९१ ॥ तक्षकं रक्षकोपेतं कोपेन मनसो रसात् । द्रुतं जुहुत यज्ञाग्नौ तानित्यूचे तदा नृपः ॥ ९२ ॥ अथावेशोच्छ्रसदृष्टिभीमनकुटयो द्विजाः। सेन्द्राय तक्षकायेति मन्त्रपूर्वी जगुर्गिरम् ॥ ९३ ॥ क्रोशन्तीष्वथ कोटीषु त्रयस्त्रिंशतिनाकिनाम् । मन्त्रशत्त्या खमानीतो नाकिनाथः स तक्षकः ॥ ९४ ॥ तौ वीक्ष्य खाण्डवप्लौषरक्षकौ शक्रतक्षकौ । होमाय कृष्टौ व्योमाने जिह्वा व्यावल्गयच्छिखी ॥ ९५ ॥ दिक्पालमयभूपाल धुपालोंऽशस्तवाष्टमः। हुतेऽस्मिन्पौरुषं ते किमित्यरोदीत्तदा शची ॥ ९६ ॥ वर्गस्वाम्ये तवेच्छा चेत्तदिन्द्रोऽस्तु त्वदाज्ञया । जनमेजय मुञ्चामुमित्यूचुः सर्वतः सुराः ॥ ९७ ॥ इति गुलोके साक्रन्दे संक्रन्दनकरग्रहात् । ... सावेशविप्रहुंकारैर्व्यच्छुटन्मय तक्षकः ॥ ९८ ॥ यावत्पतति होमाग्नौ स नागो मा पतेति तम् । व्योम्नि व्यालम्बयंस्तावदित्यास्तीकः स्तुवन्नृपम् ।। ९९ ॥ स्वस्ति ते पाण्डुवंश्याय यत्कीर्तेर्मुखबिम्बवत् । इन्दुर्मरकतादर्शनिभे नभसि भासते ॥ १० ॥ आस्ते यावदखर्वपर्वतघटा गुर्वीयमुर्वी भृशं.
तावन्नन्दतु भूमुकुन्द जगतीपुण्यैरगण्यैर्भवान् । येनैतां भुजगाधिपस्तव भुजे विन्यस्य नागाङ्गना
गोष्ठीगीतभवद्यशःश्रुतिरसादाचान्तचिन्तोऽभवम् ॥ १.१॥ खान्वत्सान्पितृदेवमानवऋषीन्यावद्धनोति स्वधा
खाहाहन्तवषट्कृतिस्तनचतुष्केन त्रयीधेनुकाः ।