SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४२६ काव्यमाला । भग्नोऽसि राज्यकष्टेऽपि यदि कातरहृत्तया । तत्तपःकष्टदृष्टः सन्विमनाः किं करिष्यसि ॥ २४ ॥ अयाचितजलाहारा वल्कभाजो जटाजुषः । किं नीडशिरसो वृक्षा भवं नन्ति विना मनः ॥ २५ ॥ क्षिताः क्ष्मारक्षिणः पूर्वे स त्वं श्रय तपोऽधुना । वयं ज्येष्ठानुगा भूप भूहत्या पततु त्वयि ॥ २६ ॥ इति संहृतवाक्येऽस्मिन्नूचतुश्चतुरौ गिरम् । यमौ जलदगर्जान्तोद्रेकिकेकिरवच्छविम् ॥ २७ ॥ इष्टदीनसुपात्रादिभुक्तशेषभुजां विभो । गृहिणां स्पृहणीयैव गतिर्यतिवरैरपि ॥ २८ ॥ तपोभिर्यतयः कष्टै राजन्वाञ्छन्ति विष्णुताम् । गृहं तु गृहिणामेत्य विष्णुर्यज्ञांशमिच्छति ॥ २९ ॥ नयी विश्वयतिस्तोम पुण्यषष्ठांशभाग्नृपः । यतिः स्वपुण्यभाग्विद्धि कः कृतिन्सुकृती तयोः ॥ ३० ॥ तत्पालय महीपाल महीमेनां मनोयतिः । तुल्यं जनकवद्भुङ्व फलं राज्ययतित्वयोः ॥ ३१ ॥ दशनद्युतिहारेण हारिणीमथ भारतीम् । रसनाञ्च(च)लदोलायां दोलयामास पार्षती ॥ ३२ ॥ भिन्नारयो भवद्वक्रप्रसादोत्काः सहोदराः । नानन्याश्चेत्प्रभो तत्ते कृतघ्नस्य व्रतेन किम् ॥ ३३ ॥ क्षालनं वज्रलेपेऽपि म्लेच्छेऽपि स्यात्पवित्रता । न घटेत कृतघ्ने तु वापि पापप्रतिक्रिया ॥ ३४ ।। सुकृतेन कृतज्ञानामधः कुर्यादिवं धरा । दुष्कृतेन कृतघ्नानां नोल्लसन्ती ध्रियेत चेत् ॥ ३५ ॥ तदालिङ्गनहृयोक्तिराज्यभागैः कृतज्ञ ते । धन्याः सहेलं खेलन्तु सोदराः सफलश्रमाः ॥ ३६ ॥ १. 'पूर्व सर्वे' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy