________________
४२४
काव्यमाला |
शान्तिपर्व ।
प्रथमः सर्गः ।
ओंकारो यः संदायैकवर्णोऽपीशस्त्रयीमयः । व्यास निश्वसितान्वेदान्पायायासमुनिः स नः ॥ १ ॥ अथ त्रैलोक्य कल्याणकन्दमन्दाकिनीतटे । तत्राजग्मुः शैमारामनीरदा नारदादयः || २ || जलाञ्जलिविरामेऽपि नेत्राञ्जलिगलज्जलः । शौचान्तेऽपि सुहृच्छोकादकिंचित्करणस्थितः ॥ ३ ॥ धर्मभूः किमपि ध्यायन्विन्ध्यस्मारीव वारणः । ऊचे देवर्षिणा कर्णपेयपीयूषवर्षिणा ॥ ४ ॥ ( युग्मम् ) दिष्ट्यासि कुशली राजन्कि विच्छाय इवेक्ष्यसे । हताहितसमूहोsपि दग्धेन्धन इवानलः ॥ १ ॥ जित्वाप्यरीन्रणास्कन्दमंदसंक्रन्दनोपमान् । लब्धेतिकष्टादिष्टेऽपि राज्ये राजन्विषीद मा ॥ ६ ॥ अथ निःश्वस्य विश्वस्य विभुरूचे हहा हताः । यदर्थमर्थ्यते राज्यं राज्यार्थं तेऽपि बान्धवाः ॥ ७ ॥ यत्रोत्पत्तिस्तदेव स्वं महसे दहतः कुलम् | उद्भ्रान्तं दुर्यशोभिर्मे धूमैरिव हविर्भुजः ॥ ८ ॥ विषस्य सोदरैव श्रीः क्रिययानु ततोऽधिका । समग्रकुलनाशाय यद्भोगैकस्पृहापि हा ॥ ९ ॥ स्मरन्मातुर्गिरं योऽस्मान्वध्यकोटिगतान्मुहुः । ररक्ष मित्र दाक्षिण्यारब्धयुद्धोऽपि बान्धवान् ॥ १० ॥ जघ्ने कृतघ्नैरस्माभिः सोऽपि विश्वत्रयीजयी । सहोदरो महीमज्जत्स्यन्दनव्यसनस्थितः ॥ ११ ॥ ( युग्मम् )
१. 'यदाप्येकः कर्णो' क. २. 'व्याप' ख. ३. 'विश्वासिभाचेदान्व्यन्' क. ४. 'न्य श्यन्व्यासमुनिर्मुदे' ख. ५. 'शरा' क. ६. 'क्ष' क. ७. 'मन्द' क.