SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ११ स्त्री पर्व - १ सर्गः ] बालभारतम् । प्रविकीर्णपुटाजिनं बभाविह निखानकदम्बमुन्मुखम् । फेलसंचयनाय कोणपैः परितो भाण्डघटेव सज्जिता ॥ ७७ ॥ अवलोकय कृष्ण जिष्णवो जगतामप्यवहन्त ये धुरम् । भुवि ते पतिता विधेर्वशाद्धिगहो यान्ति पलादखाद्यताम् ॥ ७८ ॥ प्रतिरोमपृषत्कमण्डलीपरिविद्धः परिदूरिताननैः । पिशितग्रसनाय जम्बुकैरयमात्राय विमुच्यते मुहुः ॥ ७९ ॥ भषणोऽस्य वपुष्यसावसृक्कपिशाभं पिशितस्य शङ्कया । शरशल्यमदन्क्षताननः स्वपलेनैव विगाहते मुदम् ॥ ८० ॥ पतितस्य करेण बिभ्रतः शरमेकेन परेण कार्मुकम् | लघु दूरममुष्य यान्त्यमी चकिताः फेरवगृध्रवायसाः ॥ ८१ ॥ गमितः शतखण्डतामयं रिपुणा कोपपरेण मार्गणैः । मुदितेन समेत्य फेरुणा सकुटुम्बेन विभज्य भुज्यते ॥ ८२ ॥ अयमस्य दृशि क्षिपन्मुखं श्रुतिपाशे पतितैककक्रमः । करटो विराटन्तच्छदः करटैः कैर्न रटद्भिरीक्ष्यते ॥ ८३ ॥ पिशितग्रसनात्ततृप्तयः कतिचित्क्रव्यभुजः पिवन्त्यमी । सुभटासिहतिद्विखण्डितद्विरदेन्द्रप्रकरो दरोदकम् ॥ ८४ ॥ पिशितार्थमुपागतैर्निशाचरचर्नरवतो धुताः । ४१७ कुपिता इव यान्ति जम्बुकादय एते व्यसु रक्षसां कुलम् ॥ ८५ ॥ इह डिम्बविदंशदंशिनः पलभुग्दम्पतयः स्मरातुराः । रसयन्ति रसात्करोटिभिः शशका भै रुधिरासवं नवम् ॥ ८६ ॥ नलकास्थिपुटश्रुतं घृतं नवमस्तिक्ययुतं निशाचरी । अभिभोजयति प्रियं शिशूनपि सेयं पिशितैकभुक्स्वयम् ॥ ८७ ॥ प्रखरैः क्षुरिकादिकायुधैः पतितानां भुजिनां हहा निजैः । इह जाङ्गलखण्डखण्डने सहकारित्वमंधारि रक्षसाम् ॥ ८८ ॥ १. 'तिस्थान' क. २. 'परिसंच' ख. ३. मप्यवहन्ति ये भुवम् क. ४. 'बिभृतां ' क. ५. 'विभाज्य' क. ६. पतितैकचरणः. 'पततै' ख. ७. 'मांसं पललजाङ्गले' इति हैमः. ५३
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy