________________
काव्यमाला ।
इत्युक्त्वा नकुलं कृष्णानयनाय निदिश्य सः । राजा स्वयं मृताशेषयोधमायोधनं ययौ ॥ ११ ॥ वीक्ष्य वीरान्हताराजा मूर्छन्नाश्वासितोऽनुजैः । कृष्णां प्राप्तामुपप्लव्याद्वीक्ष्य भेजेऽधिकां शुचम् ॥ १२ ॥ तं क्षयं वीक्ष्य मूर्छन्ती भीमेनाश्वासिता तदा । कृष्णा स्माह नृपं क्षुण्णसुतो भुङ्व भुवं मुदा ॥ १३ ॥ दर्शयिष्यसि चेद्रौणिं हत्वा मे तच्छिरोमणिम् । ततो भुञ्जेऽहमित्युक्त्वा सेयं प्राय उपाविशत् ॥ ५४ ॥ बोध्यमानाथ भूपेन सा क्रुधा माह मारुतिम् । मानिन्क्षत्रिय कोटीर दुःखात्रायस्व मामिति ॥ ५५ ॥ इत्युक्तः कान्तया भीमस्तूर्णं नकुलसारथिः । हन्तुमुद्दामधीमानमश्वत्थामानमन्वगात् ॥ ५६ ॥ अथोचे पार्थिवं विष्णुः फाल्गुनाय गुरुः पुरा । ददौ ब्रह्मशिरोत्रं तु क्रूराय द्रौणये न तु ॥ १७ ॥ भवत्सु वनयातेषु द्रौणिना क्रूरचेतसा । पुरी द्वारावतीमेत्य ततोऽहं चक्रमर्थितः ॥ १८ ॥ गृहाणेति मयोक्तोऽथ नायं वामेन पाणिना । न दक्षिणेन न द्वाभ्यां चक्रोत्क्षेपे क्षमोऽभवत् ॥ १९ ॥ अथोचे मामयं चक्र ग्रहीतुं स्यां यदि क्षमः । ततस्त्वामेव युध्येय बुद्धिरीदृड्ममाभवत् ॥ ६ ॥ यच्छ ब्रह्मशिरोत्रं तच्चक्रोत्लेपाक्षमाय मे । इदमुक्तवते तस्मै तदस्त्रं प्रददे मया ॥ ६१॥ स्वभावभीरुः संरम्भी क्रूरात्मास्त्रेण तेन सः । अयोज्येनापि मानव्ये द्रौणिर्भीमं हनिष्यति ॥ १२ ॥ तदितो रक्षणीयोऽद्य भीम इत्युक्तिमान्हरिः । भूपार्जुनौ समारोप्य रथे सामीरिमन्वगात् ॥ १३ ॥