SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४०५ १०सौप्तिकपर्व-१सर्गः] बालभारतम् । प्राग्भिया हरिपार्थानां स्वप्ने स्वप्ने न्वहं हताः। - ते वीरा द्रौणिकृत्याभ्यां प्रत्यक्षं तु तदुज्झिताः ॥ ३८ ॥ कालरात्रिपरीवारपिशाचपलभुक्चमूः । देहभाजस्तदाखादज्जीवतोऽपि मृतानपि ॥ ३९ ॥ इति निःशेष्य तां सेनां शेषे यामद्वये निशः। ते त्रयोऽप्यमिलन्प्रातः प्रीताः प्रोक्तमिथःकथाः ॥ ४० ॥ गत्वाथ कौरवाधीशं निःसंज्ञं रक्तभुङ्मुखम् । रुरुदुः परितः स्थित्वा शुशुचुश्चास्य तां दशाम् ॥ ४१ ॥ ऊचुश्च नृप यद्यस्ति संज्ञा शृणु ततः प्रियम् । पाण्डवाच्युतसैनेयशेषाः सर्वे हता द्विषः ॥ ४२ ॥ तान्प्रियोक्त्या नृपोऽप्यात्तसंज्ञः प्राह वहन्मुदम् । न भीष्मद्रोणकर्णैश्च यद्भवद्भिः कृतं मम ॥ ४३ ॥ प्राणान्प्रीतोऽधुना मुञ्चे स्वर्ग सङ्गोऽस्तु नः पुनः । इत्युक्त्वाभूयसुर्भूपस्तमथालिङ्गय ते ययुः ॥ ४४ ॥ अथ पार्थभिया भोजः स्वदेशं हास्तिनं कृपः । व्यासाश्रमं कृपीसूनुर्गन्तुमैच्छदिनोदये ॥ ४५ ॥ सौप्तिकस्य कथायुक्तिं प्राणमुक्ति च भूपतेः । आख्यातुं धृतराष्ट्राय संजयोऽप्यचलतम् ॥ ४६ ॥ अथेदं कृतवर्मास्त्रान्निःसृतो निशि दैवतः । आख्यन्मखभवक्षत्ता सौप्तिकं कर्म धार्मये ॥ ४७ ॥ तच्छ्रुत्वा मूर्छितः कृष्णानुजभोजैधृतः पतन् । संज्ञां प्राप्यावदद्भूपो निःश्वसन्नश्रुमिश्रदृक् ॥ ४८ ॥ अस्माकं धिग्जयोऽप्येष जज्ञे स्वक्षयहेतुकः । शोच्यो लोकेषु वेसर्या इव पुत्रोद्भवोत्सवः ॥ ४९ ॥ अद्यारिदलनानन्ददुग्धाब्धौ स्थास्यति ध्रुवम् । धिग्भ्रातृपुत्रशोकातिपङ्किले द्रुपदाङ्गजा ॥ १० ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy