________________
३९४
काव्यमाला। पार्थेभ्यः शूचिवेध्यापि न देयोवींति शुद्धवाक् । कृत्स्नां दत्त्वाद्य तां भग्नप्रतिज्ञः किं न लजसे ॥ ८८ ॥ तदुत्तिष्ठ मृधेनास्तु तव वा मम वा मही । मा भूद्विजयसंदेहो मयि त्वयि च जीवति ॥ ८९ ॥ अथाह कौरवः क्रुद्धः सर्वानप्येष हन्मि वः। एकैकेन पृथग्युद्धं विधाय गदया रयात् ॥ ९ ॥ तमथाह तपः सूनुस्तुष्टोऽहं तव शौर्यतः । इष्टेनास्त्रेण जित्वैकमप्यमासु भुवं भज ॥ ९१ ॥ अथाभ्यधत्त गान्धारीसूनुर्योऽङ्गीकरोति माम् । गदया स मया साधै समरेऽस्तु समीहितः ॥ ९२ ॥ इत्युक्त्वा स गदापाणिर्नदादुस्थितवानयम् । शोणाक्षः परिभुक्तश्रीजनार्दन इवार्णवात् ॥ ९३ ॥ सौभद्र इव युष्माभिर्नास्माभिस्त्वं निहन्यसे । इत्युक्त्वामै शिरस्त्राणं ददौ वर्म च धर्मजः ॥ ९४ ॥ येन ते रोचते युद्धमाह्वयस्व तमित्यथ । सत्याङ्गजे गदत्याह दैत्याहतिबुधः क्रुधा ॥ ९५ ॥ पुन तमिदं मूढ किमारब्धमिह त्वया । अयमाह्वयते चेत्त्वां तन्महाभाग का गतिः ॥ ९६ ॥ त्रयोदश समाः पुंसि गदाभ्यासमयोमये । अयं चक्रे कृती तेन भीमोऽप्येनं जयेन्न वा.॥ ९७ ॥ अथोत्थायावदद्धीमो मैवं वद गदाधर । हराम्येष द्विषः प्राणान्क्षणेन गदयानया ॥ ९८ ॥ अथाह्वयत तं गर्वी गर्जन्दुर्योधनो युधि । सोऽप्यधावत धीरेण ध्वनिना दारयन्दिशः ॥ ९९ ॥ तदा सरखतीतीरतीर्थचारी हलायुधः ।
तौ शिष्यौ नारदाद्ध्वा युद्धस्थौ द्रष्टुमागमत् ॥ १० ॥ १. 'अथ षामिस्तमाचष्ट तु' ख-ग. २. 'इत्युक्त्वाशु' ख-ग.