________________
३९३
९शल्यपर्व-१सर्गः] बालभारतम् ।
इत्याकर्ण्य वनीगुप्ता लुब्धका धनलुब्धकाः । द्विषं शशंसुभीमाय हृदस्थं सोऽपि भूभुजे ॥ ७५ ।। ततः सह महावीरैर्मुदां भूमिः स भूमिपः । ययौ द्वदं चमूहादहीणदिग्दन्तिसंततिः ॥ ७६ ॥ मा बुद्ध्येऽहं परैरत्रेत्याज्ञयाथ कुरुप्रभोः। दूरे वद्रुमं गत्वा द्रौणिमुख्या विशश्रमुः ॥ ७७ ॥ अथापत्य पृथापत्यतिलकस्तज्जलान्तिकम् । उच्चैर्द्विषन्तमुद्दिश्य मुकुन्दप्रेरितो जगौ ॥ ७८ ॥ विश्वत्रयीवशीकारकारणं हूदमध्यगः । प्रक्षालयसि किं राजन्यशश्चन्दनमण्डनम् ॥ ७९ ॥ . मानेन हृज्जुषाप्यम्भःस्तम्भनं किं न शिक्षितम् । यत्ते ह्रदप्रवेशेऽस्मिन्साहचर्य मुमोच सः ॥ ८० ॥ उत्तिष्ठोत्तिष्ठ युद्धोत्थै रेणुभिः कीर्तिदर्पणम् ।। नीरप्रवेशविच्छायं वीरकोटीर मार्जय ॥ ८१ ॥ चिन्तामणिः क्षत्रियाणां रणस्तदधिकोऽपि वा । कदाचिजीवतामुर्वी ददाति दिवमप्यसौ ॥ ८२ ॥ अथोद्यगुहृदच्छद्मनिर्यन्मूर्तिमदाक्षरम् ।। हृदवर्ती वचोऽवोचत्तं प्रति प्रतिभूमिपः ॥ ८३ ॥ युक्तमुक्तं त्वया वीर किं तु पृथ्व्या किमद्य मे। अर्था यदर्थमर्थ्यन्ते ते मृता मित्रबान्धवाः ॥ ८४ ॥ स्वर्ग रिपूत्सवम्लानं प्रमोदं ददते रणाः । तदेनं विश्ववन्येन प्राप्स्यामि व्रतवर्मना ॥ ८५ ॥ राजशमरसेनैव रचिताचमने मयि । मद्भुक्तोच्छिष्टनिर्मुक्तामिदानी भुङ्क्षव मेदिनीम् ॥ ८६ ॥ अथाह पार्थः किं भूप खं भूदानेन रक्षसि । भूलवोऽपि न मेने प्राक्कुलमुच्छेत्तुमेव किम् ॥ ८७ ॥