________________
३८४
काव्यमाला ।
तयोर्वनान्तद्विपयोरिवाथ गण्डस्थलोड्डीनशिलीमुखेन । रणातिरेकेण न के समीपाज्जग्मुर्महीपास्तरुवद्विनाशम् ॥ १०० ॥ यः खाण्डवे खण्डितपुच्छदण्डः स कृष्णयुग्मग्रसनप्रतिज्ञाम् । जिह्वायुगेनैव सृजन्वृषेण बाणासने बाणपदे कृतोऽहिः ॥ १०१ ॥ हितोक्तिषु स्वैरमकर्णकर्णसंधानतोऽस्माद्भुजगाशुगो यम् । द्विषद्बलं नैति पुनस्तदेनं संधेहि युद्धेषु जडोऽन्यथा त्वम् ॥ १०२ ॥ इत्युच्यमानो युधि मद्रपेन तेजोवधार्थं व्यथमानचेताः । द्विः संदधे नास्त्रमितीरितोक्तिर्मुमोच कर्णो जयिने भुजङ्गम् ॥ १०३ ॥ ( युग्मम् )
हरौ गृहीताचलगौरवेऽथ हृदा रथाश्वेषु भुवं गतेषु । किरीटिनो मङ्घ किरीटखण्डमेवाहरन्नम्रमुखस्य सर्पः ॥ १०४ ॥ कृष्णौ ततो रत्नविचित्रवर्णैः कर्णस्य बाणैः परितः परीतौ । अवापतुः पाण्डवराजराज्यजयश्रियः केलिकलापिलाम् ॥ १०५ ॥ यान्सूनुवात्सल्य वशंवदोन्तर्हस्ता निवादत्त वृषस्य भानुः । अखण्डयत्तानपि काण्डपातैः पार्थस्तुटत्काञ्चनवर्मदम्भान् ॥ १०६ ॥ अर्कात्मजत्वाद्वृषपक्षभाजा क्षिप्तो यमेनेव भुजो भुजङ्गः । कैर्षन्कचान्खाण्डवदत्तवैरश्छिन्नस्तदा व्योम्नि शरैर्नरेण ॥ १०७ ॥ (दिव्यास्त्रपातैरपि दुर्जयस्य जयस्य कर्णेन ततः क्षतज्यः । तादृग्रणश्रान्त इवास्त्रदण्डो विश्रामकामः क्षणमुन्ननाम ॥ १०८ ॥ कोपच्छलेन ज्वलनः स्वचापपराभवेनेव तदातितापः । महारिमहाय जहीति वक्तुमिवाविशश्चेतसि शक्रसूनोः ॥ १०९ ॥ द्राक्सज्जिते धन्वनि रौद्रमैन्द्रिस्ततो दधे दिग्दहनोऽग्रमस्त्रम् । नश्यन्निवैतद्भयतस्तदोवमज्जद्रथाङ्गो रविभूरथोऽभूत् ॥ ११० ॥) वामं द्विजासृक्क्षतिपापकम्प इवावमज्जद्रथचक्रमुर्व्याम् । उद्धर्तुमिच्छन्नथ भानुसूनुरवोचदुच्चैस्तनयं पृथायाः ॥ १११ ॥
१. ‘धावन्न्रवात्’ ख-ग. २. कोष्टकान्तर्गताः श्लोकाः ख-ग-पुस्तकयोर्नोपलभ्यन्ते.