________________
(कर्णपर्व-१सर्गः] बालमारतम् । तयोरभून्नारदनादहूतंगीर्वाणगन्धर्वभृतान्तरिक्षम् । अभ्यस्तमाजन्ममनोरथानां परम्पराभिः समरं पराभिः ॥ ८७ ॥ . सूर्येन्द्रयोः पुत्रजयोक्तिवादे द्विधा स्थितैः पूर्वममर्त्यवृन्दैः। पृष्टस्तदेशश्च विधिश्च यत्र कृष्णो जयस्तत्र सदेत्युवाच ॥ ८॥ मिलच्चतुर्वाधिमिथो महोर्मिसंघट्टयोपोग्रयुगान्तकल्पः । संरब्धकृष्णार्जुनशल्यकर्णशङ्खपणादः समयः स यज्ञे ॥ ८९ ॥ ततोऽतिसंरम्मिणि पार्थयुग्मे शल्योऽचलत्कृष्णकटाक्षविद्धः । हनूमतः पुच्छलवाग्ररोम्णा सा हस्तिकक्षा च हता चकम्पे ॥ ९० ॥ इन्द्राय धात्रा दनुजान्विजेतुमिन्द्रेण रामाय नृपान्विपेष्टुम् । रामेण दत्तं विजयाह्वमस्मै यच्चापमार्किस्तदयं चकर्ष ॥ ९१ ॥ द्वन्द्वकयुद्धस्पृहया सहस्रचक्षुःसहस्रांशुतनूद्भवाभ्याम् । मिथः शरैः पार्श्वचरा नरेन्द्रा विजिग्यिरे मङ्घ निजन्निरे च ॥ ९२ ॥ अथार्कपुत्रेण वलक्षपक्षाः क्षिप्ता यशोङ्का इव कङ्कपत्राः । अपूरयन्पार्थचमू रयेण मरालमाला इव नीलमजम् ॥ ९३ ॥ जवादवैरोचनमेव विश्वं कर्तुं नरेण प्रहिताः पृषत्काः। भित्त्वा भृशं कर्णशरीरमुफ्स्तलं वलिं भेत्तुमिव प्रविष्टाः ॥ ९४ ॥ मुष्टिस्थितानेब चकर्त कर्णः शरानथैन्द्रेः कृतविश्वचित्रः । उत्थातुकामाँलघुमूल एव विद्वेषिणोऽर्थानिव बुद्धिकारः ॥ ९५ ॥ उक्तोऽर्जुनस्तद्गुणविस्मृताभ्यां भीमाच्युताभ्यां ननु दुर्जयोऽसौ । धीराधिकं खाण्डवकालिकेयकिरातयुद्धादिह संरभस्व ॥ ९६ ॥ श्रुत्वेति पार्थोऽभ्युदितेऽनुरूपे रणो रणत्कङ्कणकैतवेन । दोया हसभ्यामिव दूरमुक्तैः शरैः शरीरीव नभोऽप्यकार्षीत् ॥९७॥ पराक्रमं दर्शयितुं सुरेभ्य इवात्मनो मानधनस्तदार्किः । तद्भार्गवास्त्रेण किरीटिक्कृप्तं ब्रह्माण्डतः काण्डपटं जहार ॥ ९८ ॥ विद्धाखिलाङ्गानथ भीमकृष्णकिरीटिनः काण्डगणेन कर्णः । प्रातः पतङ्गांशुसहस्रलीढत्रिकूटकूटप्रतिमानकार्षीत् ॥ ९९ ॥ १. 'अयःशरैः' ख-ग. २. 'मूलं' ख-ग.