________________
सतराद्रः ।
(कर्णपर्व-१सर्गः] बालभारतम् ।
उत्तुङ्गमातङ्गतुरंगमुख्यप्राणिव्रजप्राणनिरासरौद्रः । विना त्वयोच्चैः शरभेण केन प्रस्खल्यतां सिंह इवैष धावन् ॥ ६१ ॥ इत्युक्तिपारे वृषभल्लिभिन्नं निशम्य भीमाच्छिबिरप्रयातम् । युधिष्ठिरं द्रष्टुमगादगाधबाधः क्रुद्धान्धः सहरिः किरीटी ॥ १२ ॥ मदतिकोपेन निपात्य कर्णमिमौ समेताविति जातबुद्धिः । निरीक्ष्य तौ क्षोणिपतिः सतौघक्षीणोऽपि हर्षी शयनादुदस्थात् ॥६३॥ नत्वा निषण्णौ तदनु क्षतौघवीक्ष्याविषण्णौ नृपतिर्मुदा तौ । पप्रच्छ दिष्ट्याद्य स पिष्टसैन्यः कथं हतः संयति रामशिष्यः ॥ ६४ ॥ पार्थस्ततः माह विभो कृपीभूजयश्रिया विनितकर्णमृत्युः । भीमे भरं न्यस्य निरीक्षितुं त्वामेतोऽधुना हन्मि तवाज्ञया तम् ॥६५॥ क्रुद्धोऽथ धार्मिस्तमुवाच कुन्त्याः क्षत्राधम त्वं जवरं किमागाः । धिमां त्वयि त्रासिनि येन दधे त्रयोदशाब्दीमसुहृज्जयाशा ॥ ६६ ॥ एकोऽद्य बन्धून्परिहृत्य कर्णात्रस्तोऽसि लुब्धादिव कृष्णसारः । ओजस्विनः कस्यचिदर्पयेदं गाण्डीवमस्मानवति द्विषो यः ॥ १७ ॥ इत्युक्तिभिः कोपकटाक्षमक्षि खड्ने क्षिपन्तं हरिरैन्द्रिमूचे । गाण्डीवमन्यस्य समर्पयेति वक्तुर्वधेऽसि प्रथितप्रतिज्ञः ॥ ६८ ॥ ततः प्रतिज्ञाघटनाय शोणां सास्रामनौचित्यविवेचनेन । आकर्ष खड्गाद्दशमाशु निन्दा गुरोरशस्त्रं वधमादिशन्ति ॥ ६९ ॥ इदं निशम्याह महेन्द्रसूनुर्युधिष्ठिरं धृष्टतरैर्वचोभिः । भयातिपूर्णः परमप्रमादी त्वमेव पृथ्व्या मघवान्प्रतीतः ॥ ७० ॥ इतीरितोक्ति हृतकृष्टखङ्गं तमाह कृष्णस्त्यज मूढ शस्त्रम् । त्वं ज्येष्ठनिन्दामुशयान्मुमूर्षुः स्तवं कुरु स्वस्य सतां स मृत्युः ॥७१॥ इदं विदित्वाह नरश्चरित्रैर्न माहगस्त्री पुरुषोऽद्य कश्चित् । कलिप्रकर्षे कलितोदयानां शरीरिणां शश्वदहं धुरीणः ॥ ७२ ॥ अथैष मां निन्दति नौति च स्वमिति क्रुधा रक्तमुखं नरेन्द्रम् । हरि गौ भूप विचारयन्द्रिस्तव स्तवं स्वस्य चकार निन्दाम् ॥ ७३ ॥ १. 'निपीड्य' क. २. द्रुत' ग.