SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३९६ काव्यमाला। उद्गर्जितौ विविधरत्नविचित्रचापौ ____ चञ्चत्तडित्तरलकाञ्चनकाण्डपातौ । एकाब्धिनीररसनप्रसरविरोधौ __ धाराधराविव जवादभिजग्मतुस्तौ ॥ १८४ ॥ दोःशालिनां मृधमिथः शिथिलादराणां तेजोमयान्यरुणितानि मनांसि नूनम् । अस्त्रौघघट्टजघनाग्निकणच्छलेन पेतुस्तयोरुपरि कौतुकतश्चलानि ॥ १८५ ।। धिङ्मां विभग्नविभुवाञ्छितमद्य धिग्धि ग्दिक्चक्रवालविदितं मम शायकत्वम् । यच्छायितो न रिपुरित्यविशद्रियेव __ भूमिं शरव्यसफलोऽपि तयोः शरौघः ॥ १८६ ॥ अन्योन्यबाणततिपातितसूतसप्ति__धन्वध्वजौ कलितकाञ्चनर्मखड्गौ । क्षेत्रे प्रचेलतुरथोग्रनिजप्रताप द्विड्दुर्यशोविटपिबीजकराविवैतौ ॥ १८७ ॥ क्ष्वेडाभिः खड्गखाह्वा(ट्का)रैः स्फुलिङ्गैर्गतिभङ्गिभिः । स्फुरद्धर्घरघोषैश्च तो जातौ प्रेक्षणक्षणौ ॥ १८८ ॥ अथाकृष्य कचैर्हत्वा हृदि पातेन सात्यकिम् । सौमदत्तिः प्रपात्यैच्छच्छिरश्छेत्तुं महासिना ॥ १८९ ॥ तदाचष्ट हरिः पार्थ शिष्यस्ते पश्य सात्यकिः । जगज्जेतापि धिग्दैवात्सौमदत्तिवशं गतः ॥ १९० ॥ श्रुत्वेति पत्रिणा पार्थः सासि भूरिश्रवो भुजम् । चिच्छेद घाताभिमुखं तार्येणेवाहिमुत्फणम् ॥ १९१ ॥ १. 'चक्राब्धि' ग. २. 'चर्म' ख-ग. ३. 'खड्गारैः' क-ग. ४. 'प्रेक्षणं क्षणम्' क-ख. ५. 'रुत्फणी' ग. अस्मिन्पाठे व्यत्यासेन क्रियान्वयः, क-ख-पुस्तकपाठे 'तार्येण' इति तृतीया करणे निर्वाह्या.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy