SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व-३सर्गः] बालभारतम् । ततः पतत्रिप्रकरैः पराङ्मुखं विरच्य नाराचरुंचा गुरोः सुतम् । असृक्प्रभायन्त्रितसांध्यविभ्रमाञ्जघान संधानवनीभृतां नरः ॥ १७२ ।। हेयांहिधूतानपि रक्तवाहिनीप्रभावबिन्दू नुदितान्पदे पदे । त्वरातिरेकादभिवञ्चयन्ययौ जयद्रथेच्छोयिनस्तदा रथः ॥ १७३ ॥ तदा हरीणामपि कृष्णयोरपि द्युतिस्त्वरादीर्घतैरैव मिश्रिता । मुदा भटैः संयति जळुनन्दिनीकलिन्दजासङ्गनिभा ध्यभात्यत ॥ १७४ ॥ सव्यसाची रविरिव प्रत्यङ्गाप्तशिलीमुखम् । इतस्ततः कीर्णदलं पद्मव्यूहमथ व्यधात् ॥ १७५ ॥ विगाह्य वाहिनी पद्मव्यूहोद्दलनलोलसे । नरे नाग इवोद्धान्ते राजहंसैः पलायितम् ॥ १७६ ॥ महारथघटागुप्तपाशस्थितजयद्रथम् । सव्यसाची ततः सूचीव्यूहं निचितमाविशत् ॥ १७७ ॥ उद्यत्कीलालकीलालिमालिनं मारुतिस्तदा । अम्युज्वलगदाहस्तो ददाह स्तोममस्त्रिणाम् ॥ १७८ ॥ सात्यकेनिघ्नतः शत्रून्मुहुर्धन्व नतोन्नतम् । निमेषोन्मेषभृन्मृत्योर्विलोचनमिवाबभौ ॥ १७९ ॥ धन्विना युयुधानेन युधानेन क्रुधादितम् । कौरवेन्द्रमहाचक्रं ह हा चक्रन्द तत्तदा ॥ १८० ॥ अलं वृषनृपस्यैष खे चिक्षेप शरैः शिरः । यद्विधुतुदवद्वीक्ष्य वित्रस्तं राजमण्डलम् ॥ १८१ ॥ अपात्यन्त शरैस्तेन वीरा पञ्चशतीमिताः । क्ष्मासंमुखाः पतङ्गस्य करा इव दिवस्तदा ॥ १८२ ।। नृपानिपान्व॑िमृद्गन्तं यूथेशमिव केसरी । भूरिश्रवाः समन्यायाद्भूपस्तं यूपकेतनः ॥ १८३ ॥ १. 'रुषा' ख. २. 'हता' ख. ३. 'तरैर्विमि' क. ४. 'व्यभाव्यत' ग. ५. 'लालसैः' ख. ६. 'विनिघ्नन्त' ख. ७. 'भ्यागातू' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy