SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व-३सर्गः] . बालभारतम् । ३४३. अथैत्य पार्थ पृथ्वीशावच्युतायुःश्रुतायुषौ । शूलतोमरनाराचैर्मोहयामासतुर्दुतम् ॥ २९ ॥ द्रुतमूर्छितमूर्छन ततः शक्रास्त्रमोचिना । तावर्जुनेन गर्नन्तो जघ्नाते सानुजानुगौ ॥ ३० ॥ अङ्गवङ्गकलिङ्गादिध्वजिनीरुधिरैर्व्यधात् । वीरालंकाररत्नाढ्यैः स रत्नाकरमष्टमम् ॥ ३१ ॥ तद्भल्लभिन्नकुम्भीन्द्रघटाकुम्भसमुद्भवैः। ताम्रपर्णीशतान्यासन्रक्तैर्मुक्तालिमालिभिः ॥ ३२ ॥ प्रीतैः पीतेव रक्षोभिर्विलक्षब्रह्मराक्षसैः । तेने तेनेषुभिर्लेच्छवाहिनीरक्तवाहिनी ॥ ३३ ॥ अम्बष्ठाधिपतेर्मोलिं युद्धद्रुमफलं जयी । जयश्रिये प्रियायै स हृत्वा कृत्याय तत्वरे ॥ ३४ ॥ इतश्च त्वरया गत्वा गुरुं कुलपतिर्जगौ।। त्वां विलक्याविशत्पार्थः प्रियशिष्यतया तव ॥ ३५ ॥ दत्ता भयेन निश्येव त्रस्यन्नस्थायि सिन्धुपः । विशन्नुपेक्षितश्चेन्द्रिविरुद्धं चरितं तव ॥ ३६ ॥ अथाचष्ट गुरुयूहमविशद्वासवात्मजः । हरित्वरितवाहेन लवयित्वा रथेन माम् ॥ ३७ ॥ यद्येनमनुगच्छामि तद्भीमाद्या विशन्त्यमी । त्वं तु युध्यस्व मन्मन्त्रवज्रवर्मवशेन तम् ॥ ३८ ॥ इत्युक्त्वा वज्रमन्त्रेण वर्मितो गुरुणा नृपः । खमागतेन रुद्रेन्द्र पशुरामगुरुक्रमात् ॥ ३९ ॥ अधरोल्लङ्घनानीशमुखश्वासेन रंहसा । पार्थमन्वचलद्धन्वचलनोग्रैः समं बलैः ॥ ४० ॥ (युग्मम्) १. 'रत्नाद्यैः' क-ग. २. 'प्रीतेव' ख. ३. 'अवन्त्य' ख. ४. 'नस्यन' क. ५. 'क्रमा' ग. ६. 'मभ्यचल' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy