________________
भीष्मपर्व-२सर्गः] बालभारतम् ।
छिन्दन्तो भीष्मशस्त्राणि भिन्दम्तो वैरिभूपतीन् । निन्दन्तोऽथ पवि देवैरस्तूयन्त नरेषवः ॥ २५६ ॥ भीष्मे शिखण्डिकाण्डौघगुप्ताः पार्थेषवोऽपतन् । वियोगिनि विधूयोतलीनाः स्मरशरा इव ॥ २९७ ॥ (युग्मम्) द्रोणादीन्निघ्नतो गुप्ताः पेतुर्भीष्मेऽस्य सायकाः । पश्यन्त्याः पतिमेणाक्ष्याः कटाक्षा इव वल्लभे ॥ २५८ ॥ वज्राङ्कुरैरिव गिरिर्भेद्यमानोऽथ तच्छरैः । दुःशासनं संनिधिस्थं भीष्मः सस्मितमभ्यधात् ॥ २१९ ॥ भुजङ्गमा बिलानीव जालानीव रवेः कराः । नै मर्माणि विशन्त्येते विशिखौघाः शिखण्डिनः ॥ २६० ॥ पुत्रप्रेम्णा सुरेन्द्रेण वज्रधारा इवार्पिताः । पार्थस्यामी पृषत्कास्ते किरातरणसाक्षिणः ॥ २६१ ॥ अथो कथं ते शिथिलः काण्डपात इति क्रुधा । शिक्षार्थमिव पौत्राय गाङ्गेयः शक्तिमक्षिपत् ॥ २६२ ॥ तां छित्त्वाथ त्रिधा भीष्मं रोम्णि रोम्णि व्यपूरयत् । मुहुर्मुहुर्मुकुन्देन तय॑मानोऽर्जुनः शरैः ॥ २६३ ॥ यमाविष्टेष्विव स्वाङ्गमजानत्सु क्षताकुलम् । मिथस्तदा मदान्धेषु युद्धोद्गर्जिषु राजसु ॥ २६४ ॥ रणोद्रेकमृतानेकवीरद्वारमिवात्मनि ।। देवे दर्शयति छिद्रमपराह्ने विकर्तने ॥ २६५ ॥ छिन्नः पार्थशरैभिन्नतनुः श्रीशन्तनोः सुतः। क्षितौ पपात घस्रान्ते लध्वंशुरिव धर्मरुक् ॥ २६६ ।। (विशेषकम्) पृष्ठनिःसृतकाण्डौघसुखपर्यशायिनि ।
वीरेऽस्मिन्वीरहृत्कर्ता हाहाकारो जगत्वभूत् ॥ २६७ ॥ १. 'मन्मर्माणि' ख-ग. २. 'विशिखा न' ख-ग. ३. 'अहो' ख-ग. ४. 'मपराह्नविकर्तने ख-ग.
४१