________________
३२०
काव्यमाला । भीष्म प्रहर मा जीवञ्जीवन्यास्यसि नाद्य मत् । इत्युक्त्वा पार्षतः काण्डैस्तं बिभेदार्जुनेरितः ॥ २४३ ॥ रोमानखण्डितोद्दण्डशिखण्डिविशिखेऽस्तु सः । रोपैसपूरयन्भीष्मो संजहार महारथान् ॥ २४४ ॥ नमद्भूस्फुटनोद्धान्तस्वभ्रध्वान्तभरैरिव । रजोभिर्व्याप्तदिग्जज्ञे संमर्दो विद्विषां मिथः ॥ २४५ ॥ उत्पातजातसंभ्रान्तद्रोणाज्ञात्वरितास्ततः । कुरुवीरा धुमीसूनोः प्राकाराकारतां ययुः ॥ २४६ ॥ भीष्मस्यास्त्रैर्मणीभूषा बभुः कूटीकृता नृपाः । मेरुणेव तमाह्वातुं प्रहिताः शिखरश्रियः ॥ २४७ ॥ दूरादेत्याथ घृणया भीष्मोऽभाषत धर्मजम् । खिन्नोऽस्मि कदनादस्मात्पुत्र पातय मामिति ॥ २४८ ॥ इत्युक्त्वा शिथिलास्त्रोऽपि स बहूनां क्षयोऽभवत् । । क्रीडन्नपि करी मूलोन्मूलनं हि महीरुहाम् ॥ २४९ ॥ रक्ताब्धिब्रुडदद्रीन्द्रतुङ्गमातङ्गपुंगवः । भीमो बभूव बीभत्सोः शरव्यतिकरः परः ॥ २५० ॥ भीष्मो दीव्यास्त्रवान्धावन्मध्यमेत्य शिखण्डिना । निवारितोऽर्जुनध्वंसे सीधुनेवामृताहुतौ ॥ २५१ ॥ तं क्षणेऽस्मिन्रणे स्मेरमभ्येत्य वसवोऽभ्यधुः । कालोऽयं धन्य संन्यासहेतुस्तेऽस्माकमीहितः ॥ २५२ ॥ अथ भीष्मः श्लथारम्भः शिखण्डिविशिखबजैः । वातोत्थकुसुमस्तोमैरारामिक इवाचितः ॥ २५३ ॥ पतच्छीर्षोच्छलद्रक्तच्छलनृत्यत्पराक्रमः । चक्रेऽरिचक्रं साक्रन्दं साक्रन्दनिरिषुव्रजैः ॥ २५४ ॥ भीष्मेणास्त्रं घृतं यद्यत्तत्तदैन्द्रिस्तदाच्छिनत् ।
स्वीकृतं वादिना पक्ष वितानमिव सन्मतिः ॥ २५५ ॥ १. 'विशिखेषु सः' ख-ग. २. 'कृष्णो' ख; 'कृष्णौ' ग. ३. 'श्चितः' ख.