________________
३१२
काव्यमाला। गाङ्गेयकृष्णमहसोर्महान्गाङ्गेयकृष्णयोः । संहर्षोऽभूत्सहस्रांशुसिंहिकासुतयोरिव ॥ १४२ ॥ बभुस्तद्विशिखा हैमाः खात्पतन्तः क्षमातले । तत्प्रतापौघमूर्छालाः करमाला रवेरिव ॥ १४३ ॥ निर्मग्नवाहनो द्रोणबाणश्रेणीरणार्णवे । विराटः शिश्रिये शङ्ख जीवनाशाविमूढधीः ॥ १४४ ॥ विराटशङ्खौ तावेकरथस्थौ पितृनन्दनौ । अयोधयद्गुरुर्मोहकौघाविव शिष्यगौ ॥ १४५ ॥ घनसारोज्ज्वलेनाथ यशसा च शरेण च । द्रोणः शङ्खमसत्तायां मज्जयामास हेलया ॥ १४६ ॥ द्रौणिखण्डितपत्रेण यद्गत्वैव शिखण्डिना । अस्त्रविद्यालतागुल्मविटपी सात्यकिः श्रितः ॥ १४७ ॥ सात्यकिः क्रुद्धमायान्तं मायाताण्डविताचलम् । ऐन्द्रेणास्त्रेण जितवान्नलम्बुषनिशाचरम् ॥ १४८ ॥ विन्दानुविन्दावावन्त्यौ पन्नगीसूनुरार्जुनिः । इरावानजयन्पुण्यः पापौघाविव योगयुग् ॥ १४९ ॥ भयौपत्रस्तमरणं रणं कृत्वा क्षणं महत् । द्विड्वाहिनीमगाहेतां भगदत्तघटोत्कचौ ॥ १६० ॥ नकुलं विरथीकृत्य व्यद्रवन्मद्रपोऽभितः । विरथ्य सहदेवेन मातुर्धातेति नो हतः ॥ १५१ ॥ क्रुद्धः शतायुषं भूपं जित्वा धार्मिः स्वयं क्रुधम् । संजहार जगद्भीतिहेलां वेलामिवार्णवः ॥ १५२ ॥ कृत्तैर्भीष्मास्त्रपातेन भुजैर्गल्लैश्च भूभुजाम् ।
यमभोजनशालायां दर्वीभाण्डायितं युधि ॥ १५३ ॥ १. 'तद्विशिष्टाश्च हैमाभा' क. २. पत्रं वाहनम्. ३. 'गौत्रै' ग; 'गभैं' ख.