________________
६ भीष्मपर्व -२ सर्गः ]
बालभारतम् ।
भीमस्तद्वाण संजातसर्वाङ्गीणत्रणो रणे ।
गोपति कोपसंरक्त डेक्सहस्र इवैक्षत ॥ १३० ॥ ततऽशुप्रकरेणार्कः कौरवप्रकरानिव । कौरवान्मोहयामास मोहनास्त्रेण पार्षतः ॥ १३१ ॥ मिथः पेषकपेष्यत्वं भेजिरे कौरवास्ततः । तीव्रात्मानः प्ररोहन्तो डिम्भस्य दशना इव ॥ १३२ ॥ प्रौढप्रज्ञास्त्रपातेन कौरवप्रकरं गुरुः । तदाश्रु बोधयामास मोहविद्रोहकारकः ॥ १३३ ॥ ततो मुञ्चे न जीवन्तमेनमद्येति मारुतिः । विरथ्य कुरुपृथ्वीशं मूर्छयामास मार्गणैः ॥ १३४ ॥ · नृपे कृपेण रथिना कृष्टे हृष्टेऽथ पाण्डवे । क्ष्वेडाभिः खण्डयत्यद्रींश्चकम्पे चकितेव भूः ॥ १३५ ॥ उद्यते कुरुवृद्धेऽथ पाण्डवप्रेयसी चमूः । शिरोनिखातैर्विशिखैः कुरङ्गीमिव निर्ममे ॥ १३६ ॥ भीष्मो भुवनसंक्षोभी भीरूणामथ भूभुजाम् । संकीर्णीकृत कीनाशसदनं कदनं व्यधात् ॥ १३७ ॥ स कोऽपि द्रौपदेयानां कौरवैरभवद्रणः ।
येनाशु जगृहे चक्षुर्भीष्मादिभ्योऽपि नाकिनाम् ॥ १३८ ॥ तदा तत्कदनाधिक्यमशक्त इव वीक्षितुम् ।
गिरिगुप्ते रवौ चक्रुरवहारं महारथाः ।। १३९ ॥ (षष्ठमहः ) भीमाभिभूतमाश्वास्य निशान्ते शान्तनिर्नृपम् ।
उवाह मण्डलव्यूहं वज्रव्यूहं च धर्मजः ॥ १४० ॥ ततश्छिन्नेव भानोर्भा वीरक्षिप्तैर्महेषुभिः । क्ष्मायामितस्ततोऽभ्राम्यद्विधुरा रुधिरच्छलात् ॥ १४१ ॥
३११
१. 'गोपतिः' ख-ग. २. 'दन्तहस्त' क. ३. 'इवैक्ष्यत' ख-ग. ४. 'कैरव' इति भवेत्. ५. ‘ऽमुञ्चत' ख ग. ६. 'भूरीणा' ख. ग.