________________
२९८
।
तं बृहद्बलमखण्डबलश्रीर्मन्युमानभिययावभिमन्युः । आर्जुने रणसहायतयाथो कैकयक्षितिपतिः कृपमाप ॥ ७९ ॥ दन्तिनोरिव तदा कुरुपाण्डुव्यूहयोरुभयतो रदनाभान् । तान्प्रहारचतुरांश्चतुरोऽपि प्रेक्षत ध्वनिघनानमरौघः ॥ ७६ ॥ तन्मिथो विरथिनौ सकृपाणौ म कैकयनृपश्च कृपश्च । तत्किमप्यसृजतां युधि येनालोकितौ रणमपास्य भटैस्तैः ॥ ७७ ॥ दुर्मुखस्य धृतराष्ट्रसुतस्य द्राग्बृहद्बलसहायपदस्य । सारथिं युधि शरेण सरोषो निर्जघान सहसा सहदेवः ॥ ७८ ॥ आर्जुनेर्विरितः शरवीथीं ज्यानिनादनिपतद्विपुपतेः । अच्छिनद्युधि बृहद्बलभूपो मार्गणैः सपदि सारथिकेतू ॥ ७९ ॥ तत्कृतप्रतिकृतः स कृतज्ञः कोपतः किमपि युद्धमधत्त । फाल्गुनिर्घनघनाघनसान्द्रैश्छादयन्गगनवर्त्म शरौघैः ॥ ८० ॥ एकमप्यतुलवीर्यमनेकं मेनिरे निजनिजाग्रविभागे । रोदसी दशदिशोऽपि शरौघैः प्लावयन्तमिव फाल्गुनिमन्ये ॥ ८१ ॥ अप्यभेद्यमुपलावलिवृष्ट्या मण्डपं दिवि विधाय स काण्डैः । अग्निवज्जनकमातुलरीत्याचारयद्विपुवने निजतेजः ॥ ८२ ॥ भिन्नभद्रगजरौद्रसुभद्रानन्दनात्रगणविक्रमणेन ।
काव्यमाला ।
.
इत्यभिद्रुतकुरुप्रकरेण प्रीणिते समिति पाण्डवसैन्ये ॥ ८३ ॥ आपपात तटिनीतनयस्य स्यन्दनो भुवनभीषणघोषः । चक्रयोर्गतिभिरेव मृतानां जीवतां च हृदयानि विभिन्दन् ॥ ८४ ॥
(युग्मम्)
आपतत्प्रलयमारुतकल्पः सिन्धुसूनुरतुलस्तु बलान्तः । भूभृतां सकटुकानि कुलानि व्यक्तशक्तिरुदपीडयदग्रे ॥ ८९ ॥ न श्रम समजनिष्ट तटिन्या नन्दनस्य धनुषी विशिखैर्वा । भ्रूविभङ्गचललोचनरोचिः स्रग्भिरेव विमुखेषु परेषु ॥ ८६ ॥