SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ उद्योगपर्व-५सर्गः] बालभारतम् । २९१ पदाङ्गुलीभियुधि केऽपि केऽपि कराङ्गुलीभिर्युधि चूरणीयाः । घात्या द्विषोऽमी शतमित्यमर्षात्कृष्णासुतैः पञ्चभिरप्यभाषि ॥ ११३॥ सृष्टं स्वयं शत्रुषु दीर्घमायुः क्षणादिवापूरयितुं प्रवृत्तः । बभ्रुः क्रुधा विभ्रमदुप्रवेगादृशौ निशाघस्रविवर्तहेतू ॥ ११४ ॥ यथा प्रकोपेन जटासुरारिश्चपेटयाताडयदूरुमूरुम् । भियेव तद्धानभुवा म्रियेरन्समीपतः स्युर्यदि धार्तराष्ट्राः ॥ ११५ ॥ जिह्वाञ्चलोऽराजत सृञ्जयस्य किंचिद्विवक्षोः प्रसृतास्यलोलः । प्रत्युत्सुकः शत्रुकुलानि दग्धुं निर्यन्हृदो मूर्त इव प्रकोपः ॥ ११६ ॥ यमौ जगत्प्राणसमीर पानस्फीताविवोष्टौ यमपन्नगस्य । प्रदर्शयामासतुराशु खड्गनिबाद्वयं द्यामिव लेलिहानम् ॥ ११७ ॥ भूमि परां प्राप्यत फाल्गुनेन भूर्भालरन्ध्र प्रकटं नेटन्ती । नटीव वैरिव्ययनाटकैकनटस्य गाण्डीवशरासनस्य ॥ ११८ ॥ तेषां प्रकोपस्य विकस्वरस्य द्विषन्नमेधक्रतुपावकस्य । जानन्नुलूकः प्रथमाहुतिं खं त्रस्तो नृपभ्रूलवसंज्ञयैव ॥ ११९ ॥ द्वेषादेष निमेषतोऽहमखिलां द्विट्संहति संहरे प्राप्यैकस्य हरे रणोत्सवनवोत्साहाय साहायकम् । इत्यग्रे नृपमुग्रवाचि विजयिन्यम्युत्थिते निर्भर वीरेन्द्राः समनीनहन्समममी सेनां रसेनाश्चिताः ॥ १२० ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मताईस्थितैः __ पादाजभ्रमरोपमानममरो नाम व्रतीन्दुः कृती । मोहद्रोहिणि बालभारतमहाकाव्ये शमं पञ्चमं .. तबोधाम्बुधिमौक्तिकस्रजि ययौ पर्वेदमौद्योगिकम् ॥ १२१ ॥ सर्गः पञ्चभिरुद्योगपर्वण्यस्मिन्ननुष्टुभाम् । पञ्चविंशतियुक्तानि निश्चितानि शतानि षट् ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते बालभारतनाम्नि महाकाव्ये वीराङ्के उद्योगपर्वणि समरसमारम्भो नाम पञ्चमः सर्गः । ___इत्युद्योगपर्व समाप्तम् ॥ १. रटन्ती ' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy