SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९० - काव्यमाला। संपृच्छमाने नृपतौ निवेद्यमानेषु भीष्मेण महारथेषु । उक्तोऽङ्गभर्तार्धरथीति कोपात्प्राची प्रतिज्ञा पुनराबबन्ध ॥ १० ॥ उलूकनामाथ सुयोधनेन दूतो नियुक्तः समरोत्सुकेन । कोपानिकीलाकटुभिर्वचोभिः सभागतं धर्मसुतं बभाषे ॥ १०१ ॥ राजन्रणं कस्य बलेन कर्तुमुत्कोऽसि साकं कुरुकुञ्जरेणं । न द्यूतमेतद्विजितः क्षणेऽस्मिन्न यासि जीवन्सह बन्धुभिः स्वैः ॥१०२॥ जीवन्त्रजाशु त्यज युद्धबुद्धि मिष्टान्नभोजी भव सर्वदापि । विराटभूपौकसि सूपकारभूतस्य भीमस्य करप्रसादात् ॥ १०३ ॥ किरीटिकोदण्डगुणाग्रधूततूलालिसंपादितसूत्रजातिः । विप्राकृतेस्तत्र नवांशुकानि ददाति साध्वी विशदानि कृष्णा ॥१०४॥ निश्चिन्तमेवं कैशिपुस्तवास्ति मा मृत्युदूती भज राज्यचिन्ताम् । इमानपि श्रीपतिसात्वतादीनिक कालभोज्यं कुरुषे विमूढ ॥ १०५ ।। अथो रथाश्वेभनृवाहनाधिरोहस्पृहा काचन ते चकास्ति । तद्दासतामाशु सुयोधनस्य भज स्वयं सेवककामधेनोः ॥ १०६ ॥ इत्यस्य वाग्भिः स्फुटनिष्ठुराभिर्भुजाभृतां कोपकुटुम्बितानाम् । अक्षणां द्युतिः कौरवकालरात्रिसंध्येव मध्येजगदुदिदीपे ॥ १०७ ॥ क्रोधज्वलचक्षुरभीशुभिन्नाः कनीनिकांशुप्रकरा न केषाम् । दूतेऽत्र पेतुः प्रलयानलाचि टालकालायसदण्डचण्डाः ॥ १०८ ॥ हस्तेन चेदिक्षितिपः शतघ्नीमुदास घात्याः शतमित्यमर्षी । स्थाप्याश्च पञ्चेति महीं महाभिघातेन चक्रेऽङ्गुलिवातचिह्नाम् ॥१०९।। यं धृष्टकेतुः स्फुटितस्फुलिङ्गं कुधा कृपाणं दशनैर्ददंश । उत्प्रैक्षि कैर्नास्य सभाभ्यवर्ती(?) हद्दीप्तशौर्यानलधूमदण्डः ॥ ११०॥ क्रोधात्तथा क्रौर्यमधत्त धृष्टद्युम्नो यथास्य प्रतिबिम्बदम्भात् । कृष्टासिवर्ती पुरतो बभूव किं किं करोमीति यमोऽपि कम्प्रः ॥१११॥ विवर्तयंश्चक्रमिवाक्षितारामारोपयंश्चापमिव भ्रुवं च । तुलां तदागाहत मातुलस्य पितुश्च मन्युप्रवणोऽभिमन्युः ॥ ११२ ॥ १. भूपस्य च' ख. २. 'कशिपुर्भक्ताच्छादनयोरेकोक्त्या पृथक्तयोः पुंसि' इति मे. दिनी. ३. 'केनास्य स नास्यवर्ती' ख-ग. ४. 'प्रदीप्त' ख. ५. 'दीपः' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy