________________
५उद्योगपर्व-५सर्गः] बालभारतम् ।
२८७ किं चात्मनः स्वप्ननिमित्तदिष्टं जानामि मृत्यु पुनरस्मि धन्यः । मातः प्रयाणावसरेऽद्य यत्त्वं तीर्थानि सर्वाण्यपि वीक्षितासि ॥ ६३ ।। इदं वदन्मातृपदं प्रणम्य कर्णः प्रयाणाय दिदेश सैन्यान् । कुन्ती च सूनोर्वचनेन हर्ष दुःखं च दीर्घ दधती जगाम ॥ ६४ ॥ अथोरुवात्योद्धतधूलिरुग्णदृग्वारिदुष्यञ्जलपूर्णकुम्भः । कुरुप्रभोविस्मृतमन्त्रशून्यं यात्राभिषेकं विदधे पुरोधाः ॥ ६५ ॥ अस्मिन्नसत्यत्वभयेन नूनमनिर्यतः स्वस्त्ययनस्य मन्त्रात् । प्रसह्य कर्षन्खिदयेव भिन्नस्तदा द्विजानां धनिराप मान्द्यम् ।। ६६ ॥ जेता भवान्वैरिपरम्पराभिः सुदुस्तरेऽस्मिन्समरे ससैन्यः । ततश्चिरं तापकशूरभेदपरायणः प्राप्नुहि गां सबन्धुः ॥ ६७ ॥ आशीर्वचोभिर्विपरीतबोधक्लिश्यद्विदग्धैरिति मागधानाम् । मुग्धः प्रमोदं दधदन्धजन्मा रथं मृतेर्गेहमिवारुरोह ॥ ६८ ॥ (युग्मम्) तनोति दुष्टत्वततीरतीव यः स स्फुटं पूर्वजपातहेतुः । अतः पपातादिपुमानमुष्य च्छत्रापदेशेन दिवो भुवीन्दुः ॥ १९ ॥ कुमारिका मौलिगपूर्णकुम्भा शुभार्थमानीयत सन्मुखं या । इयं स्खलित्वा पतिता जयश्रीरिवाग्रतस्तारतरं रुरोद ॥ ७० ॥ अस्मिन्नकल्याणमरातिवीरमहाप्रहारैभवितेति भीतः । विमुच्य मूर्धानममुष्य राज्ञः पपात कल्याणमयः किरीटः ॥ ७१ ।। आसन्नमार्जाररणोपनादभियस्तदा दीपधरस्य हस्तात् । कम्प्रादपाति क्षितिपप्रतापवीजत्विषा मङ्गलदीपकेन ॥ ७२ ॥ उन्मत्तकारूत्कटदण्डपातस्फुटत्पुटोत्थः कटुजर्जरश्रीः । जयश्रियः क्रन्दितवत्तदाभूत्प्रयाणशंसी पटहप्रनादः ॥ ७३ ॥ तैदाचलद्भिः समराय नागैय॑स्तं स्वसर्वस्वमिव प्रियासु । मदाम्बु रोलम्बकदम्बचुम्ब्यमाविबभूव द्विरदीषु भूरि ।। ७४ ॥ १. 'यदि त्वम्' ख. २. 'वैरिपरम्पराभिः सुदुस्तरेऽस्मिन्समरे ससैन्यो भवाओता । कर्तरि लुट् । ततः संतापदायोधमारणपरायणः सबन्धुश्चिरं पृथ्वीं प्राप्नुहि' इति मागध. विवक्षितोऽर्थः । 'वैरिपरम्पराभिः कत्रीभिर्भवाजेता। कर्मणि लुट् । सूर्यमण्डलभेदनपरायणो मृतो गां स्वर्गम्' इति दुर्योधनावगतोऽर्थः. ३. श्लोकद्वयमुत्तरश्नोकतः पश्चात् ख-ग...' :