________________
५उद्योगपर्व-१सर्गः) बालभारतम् । __ २५९
इत्युक्तिभासुरे भीष्मे सान्तोंसे समाजने । सद्यः कर्णे विवणे च वाचमूचे विचित्रभूः ॥ ९७ ॥ हितमाहितचिन्तानां निखिलानामिलाभृताम् । भीष्मो यदाह वंशैकदाहनीरं हि तद्वचः ॥ ९८ ॥ जगदुद्धारसंहारसत्ये सत्यपि तेजसि । स्पृहयन्ति श्रिये कुल्यनिग्रहं विग्रहं न ये ॥ ९९॥ तेऽतिमन्थोल्लसत्कोपा न क्रियन्ते पृथाभुवः । उद्यद्गरा इव क्षीरसागरा लोकलुप्तये ॥ १०० ॥ तद्यातु संजयस्तत्र प्रसादयतु पाण्डवान् । प्रसादप्रकृतीनिन्दुकरानिव घनात्ययः ।। १०१ ॥ इत्युक्त्या सभ्यचेतांसि रञ्जयन्संजयं नृपः । पार्थेषु संधये प्रेषीत्तं पुरोगपुरोहितम् ॥ १०२ ॥ उपप्लव्यपुरे गत्वा मित्रमन्त्रिवृतं नृपम् । ननाम संजयो नामथनेन पृथासुतम् ॥ १०३ ॥ पृष्टः कुलस्य कुशलं वाचिकं च स भूभुजा । गिरां गतिषु पीयूषं खञ्जयन्संजयो जगौ ॥ १०४ ॥ यद्भाति त्वादृशैर्धर्मोजागरं गुणसागरैः । भूप संभाव्यतां कस्मात्तस्मिन्न कुशलं कुले ॥ १०५ ॥ इदं तु मन्तुसंतानमन्दनन्दनदुःखितः । संदिदेश त्वयि श्रीमानग्रजः पाण्डुभूभुजः ॥ १०६ ॥ धर्ममर्मविदो वन्द्या भवभाजां भवादृशाः । न ये कृतान्यक्षोभेण लक्ष्मीलोभेन लचिताः ॥ १०७ ॥ भवान्भवानुकारी न याति कस्य नमस्यताम् । अभञ्जि वनभाजोऽपि यस्यैश्वर्य न केनचित् ॥ १०८ ॥ धूलिस्थामस्थिरां भूमिमिच्छन्बन्धुवधोद्यतः ।
सुधांशुशुद्धया कीर्त्या को न मुच्येत नित्यया ॥ १०९ ॥ १. 'प्रथमेन' क-ख.