________________
२५८
काव्यमाला।
इति हृद्भिः सुहृद्भिश्च विचार्य सुकृतोचितम् । कृत्यं कृत्यबुधैर्विश्वानन्दि संदिश्यतां मयि ॥ ८५ ॥ इत्युक्तस्वेशसंदेशभङ्गिरिङ्गितवित्तमः । । सर्वेषु वान्तबोधाय पुरोधाश्चक्षुरक्षिपत् ॥ ८६ ॥ जनिकृत्प्रकृतिः सर्वः स्यादिति स्पष्टतां नयन् । भेजे शुभ्रतरङ्गाभामथ गङ्गासुतो गिरम् ॥ ८७ ॥ दिष्टया बाहुबैलोदस्तप्रत्यूहव्यूहवीचयः । विपन्नीरनिधेस्तीरमीयुस्ते वीरखेचराः ॥ ८ ॥
ऐन्द्रिदोर्वशवीराणां दिष्ट्या तेषां शमार्थिता । दिष्टया प्रविष्टास्तत्कोपदहनं न महीभुजः ॥ ८९ ॥ इदं गदति गाङ्गेये भ्रूभङ्गाभोगभीमदृक् । तापनिस्तापनिर्बन्धविधुरां व्याहरद्गिरम् ॥ ९० ॥ रणवस्तहृदो दैन्यप्रार्थितोलिवानपि । भीष्म भीष्मानिवाख्यासि कस्मादस्मासु पाण्डवान् ॥ ९१ ॥ सन्त्येभ्यो वीरकोटीरा गुणकोटीभिरुत्तराः । तत्कि न पलितापीड ब्रीडेसे पाण्डवस्तवैः ॥ ९२ ॥ यद्वा सुतेष्वशक्तो यः स पितॄणां प्रियो भवेत् । निन्दां करोषि कुरुषु स्तुति पाण्डुसुतेषु यत् ॥ ९३ ॥ अथावदन्नदीसूनुः स्मितैः कुसुमितं वचः । पार्थस्तुतिषु राधेय बाधेयमिति किं तव ॥ ९४ ॥ गणयन्ति तृणं प्राणान्ये प्रवीरा रणाङ्गणे । चण्डैरुड्डापयन्ते तान्पाण्डवाः काण्डवायुभिः ॥ ९५ ॥ निरीक्ष्य गोग्रहे घोषविग्रहे च बलं तव । नेदानीं वेभि दैत्येन यदि ते दधते भयम् ॥ ९६ ॥
१. 'भृङ्गीरङ्कितविक्रमः' क. २. 'बलोदग्रध्वस्तप्रत्यूहवीचयः' ख. ३. 'ऐन्द्रेर्दो' ग. ४. 'ब्रीडमाप्नोषि तत्स्तवैः' ख.