SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ४ विराटपर्व-३सर्गः] बालभारतम् । २३५ पृष्ठानुयायिजवनानिलत्वरासंप्रेरितैरपि निजाश्वपादनैः। अप्राप्त एव रजसां भरैरथ सूर्य ययौ रिपुसमीपमुत्तरः ॥ १४ ॥ अग्रे शमीतरुसमीपगः पुरीप्रान्तस्मशानभुवि मत्स्यभूपभूः । विद्वेषिणां भुवनभीषणारवं व्यालोकते स्म विपुलं बलार्णवम् ॥ ५५ ॥ विश्वान्तरालचरकालशर्वरी संध्यायमानकरिकुम्भवर्णकम् । रङ्गत्तुरङ्गखुरपातघातनक्षोणीरजःस्थपुटदिक्पुटस्थितिम् ॥ १६ ॥ चञ्चद्रथोच्चयचलध्वजाञ्चलप्रज्वालितप्रबलपौरुषानलम् । व्याप्तप्रमत्तयमकिङ्करावलीतुण्डाभकुण्डलितचापमण्डलम् ॥ १७ ॥ दृप्तं नदीजकृपकुम्भभूकृपीसंभूतसूतसुतकौरवेश्वरैः । सैन्यं निभाल्य पुरतो भयातुरः प्रोचे शचीवरतनूजमुत्तरः ॥ १८ ॥ (त्रिभिर्विशेषकम्) एतां निरूप्य पृतनां दिनेशरुग्दीप्तासि दण्डनिबिडां बृहन्नडे । आकम्पतेऽद्य हृदयं भयाश्रयं व्यावर्तयान्तकपुरीपथाद्रथम् ॥ ५९॥ श्रुत्वेति तस्य वचनं धनंजयो व्याचष्ट तं भ्रमितभीरुलोचनम् । सङ्ग्रामकातरतया त्रपामहे क्षोणीमहेशसुत शूरसंसदि ॥ ६ ॥ कीर्तियुगान्तशतसाक्षिणी नृणां कायस्तु मत्तकरिकर्णचञ्चलः । धैर्य भजस्व युधि भङ्गसंगमान्मा मा कुलं कुरु कलङ्कसंकुलम् ॥ ६१॥ आत्मायुधैर्युधि विशोधितो न चेत्तन्नामृतद्युतिकलोपदंशकः । वाद्येत नन्दनवनान्तकेलिषु प्रेम्णार्पितोऽमरवधूजनाधरः ।। ६२ ॥ मातुः स्वसुश्च दयिताततेश्च तां संधां विधाय पुरतस्तथाविधाम् । धिग्धिक्पलायनपरायणोऽधुना ही नहीनमनसां जिजीविषा ॥ ६३ ॥ श्रुत्वेत्यभाषत सुतः क्षितीशितुर्वित्रस्तहस्तगधनुर्विहस्तधीः। पश्यन्पुरः कुरुपतेर्वरूथिनीं दृप्यद्रथीन्द्रवरभैरवारवाम् ॥ ६४ ॥ या कीर्तिरुल्लसति देहनाशतस्तां वेसरीसुतजनुःसहोदरीम् । रम्भाफलोद्भवसवर्णिनीं जनः कां मूलनाशनकरी परीप्सति ॥ १५ ॥ १. 'कलोक' ख; 'कपोल' ग. २. 'हीना न हीन' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy