________________
२३४
काव्यमाला ।
एत्य प्रऽथ पुरि गोकुलाधिपः शुद्धान्तधामनि कुमारमुत्तरम् । व्याचष्ट पुष्टभयकोपसंचयव्याकम्पसंपदपरिस्फुटं वचः ॥ ४२ ॥ एकार्णवं क्षितितलं बलोत्करैः कुर्वन्कुबेरहरितो जहार गाः । शीतद्युतौ द्विगुणयन्सुयोधनः स्वामिन्कलङ्कमलमात्मपूर्वजे ॥ ४३ ॥ युद्धेऽन्यतश्चरति तत्र भूमिभृत्सिहेऽस्तभीरिभ इवेह सोऽस्फुरत् । जानात्यसौ खलु कुमारसिंह न त्वामत्र गोत्रतिलकायितश्रियम् ॥४४॥ चक्षुर्भुजापरिघयोर्मुहुः क्षिपन्दन्तांशुभिर्विशदयन्मुहुः सभाम् । मातुः पुरः प्रणयिनीजनस्य च प्रोचेऽथ मत्स्यनृपसूनुरुत्तरः ॥ ४५ ॥ तावत्कुधे युधि जातु द्विषो यावन्न मे प्रतिलसन्ति सायकाः । स्यादद्य यद्यनुगुणस्तु सारथिस्तत्तान्करोम्युदितपार्थशङ्कितान् ॥ ४६ ॥ इत्थं धराघवभुवा धनंजयस्पर्धेद्धरं निगदिते वधूपुरः । मन्यूद्भवा बहुलमन्युरग्रही दन्तविहस्य वचनं मनखिनी ॥ ४७ ॥ ख्यातः क्षितीन्द्रभव यस्तव स्वसुर्नृत्ये गुरुत्वमवहद्बृहन्नडा । पूर्व पुरंदरभवस्य खाण्डवप्लोषे स सारथिपदं प्रपेदिवान् ॥ ४८ ॥ यस्तस्य गाण्डिवविखण्डितद्विषो यन्ताजनिष्ट स न ते किमु क्षमः । सारथ्यमर्थयतरां तमुत्तरां संप्रेष्य नैष यदि मां न मानयेत् ॥ ४९ ॥ श्रुत्वेति तद्वचनमुत्तरोऽनुजां प्रेष्यानिनाय रयतो बृहन्नडाम् । तेनातियत्नमयमर्थितो जयः सारथ्यभारमुररीचकार तम् ॥ ५० ॥ अन्तःपुरेऽथ परितः कुमारिका मिथ्यानभिज्ञ इव हासयन्मुहुः । पर्यादधार विविधैर्विचेष्टितैः सौवर्णवर्म शतमन्युनन्दनः ॥ ११ ॥ इत्युत्तराभ्यधित सस्मिताधरा तं सज्जितध्वजपटे रथे स्थितम् । संख्येऽशुकान्यसुहृदां बृहन्नडे हार्याणि मत्कृतकपुत्रिकाकृते ॥ १२ ॥ इत्थं तदुक्तिमभिगम्य पाण्डुभूरारूढवत्यथ रथं तमुत्तरे । तारांस्तथैष तुरगानतत्वरत्क्ष्मामस्पृशन्त इव ते ययुर्यथा ॥ १३ ॥
१. 'जाग्रति ' क.