SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३२ काव्यमाला । पूर्णेऽथ धर्मतनयस्य वत्सरे सुप्ते तदा कलकलाकुलाननः । गोपालजालपतिरेत्य संसदि श्वासोमिंजर्जरितगीर्जगौ नृपम् ॥ १६ ॥ यः कीचकेन करिणेव पल्वलश्चक्रे पुरा स्फुरदकीर्तिकर्दमः । देव त्रिगर्त नृपतिः स एव ते जहे पुरस्य सुरभीरभीलुकः ॥ १७ ॥ क्रोधोद्धुरः स धरणीधवो धनुर्ध्वानौवरुद्धमरुदध्वकन्दरः । प्रच्छन्नपाण्डुसुतसंयुतस्ततः संनद्धदुर्धरचमूचयोऽचलत् ॥ १८ ॥ तैः सूर्यशङ्खमदिराश्वनामभिः पुत्रैर्युतः स नृपतिर्द्विषां बलम् । प्रापेन्दुशुक्रबुधबद्धसंनिधिर्ध्वान्तं प्रगे प्रतिपदंशुमानिव ॥ १९ ॥ भोक्तुं रसेन चतुरङ्गतां गतं सैन्यं समानसमयं सुशर्मणः । तत्कृष्टकार्मुकचतुष्टयच्छलाज्जज्ञे यमस्ततचतुर्भिताननः ॥ २० ॥ वीरोत्करेऽवनिविलासशालिनि स्वर्गाङ्गनासमुदये वियज्जुषि । अन्तःपटाभमिषुमण्डपं व्यधुस्ते पाणिपीडनमहोत्सवे तयोः ॥ २१ ॥ स्पर्धानुबन्धिसुरसिन्धुमत्सरान्नेतुं सहस्रमुखतां निजं यशः । युद्धक्रियानिरवधीन्कुधावधीद्वीरान्सहस्रमथ मत्स्यपार्थिवः ॥ २२ ॥ तादृक्सहस्रमितवीरमर्दनप्रोद्भूतदुःसहमहः सहस्रकम् । मत्स्यावनीशमवलोक्य लज्जया झम्फां सहस्ररुचिराम्बुधौ व्यधात् २३ उद्दण्डकाण्डकृतवीरमण्डलावर्तस्त्रिगर्त नृपतिस्ततः क्रुधा । भ्रूभङ्गभीषणमुखः करालदृग्द्रामत्स्यभूमि विभुमभ्यधावत ॥ २४ ॥ कुन्तं रयेण करमुक्तमाहवे दूरात्प्रविश्य हृदयेन विद्विषाम् । पृष्टेषु निःसृतमहो मुहुः करे वेगाद्धयस्य जगृहुस्तुरङ्गिणः ॥ २५ ॥ दूरे पुरः स्थितमपि द्विषं प्रति क्रुद्धा विमुच्य विशिखं महारथाः । पश्चाद्विमुक्तममुमश्ववेगतोऽपश्यन्मृतं वलितकन्धरा यदि ॥ २६ ॥ निर्भत्सितेव भटरक्तसिन्धुभिः संध्या जगाम विलयं स्वयं तदा । अप्यन्धकारनिकरान्निकारवान्क्षीणः क्षणेन रणरेणुडम्बरः ॥ २७ ॥ वीरासिपातधुतकुम्भिमण्डली कुम्भोत्थमौक्तिकगणानुकारिभिः । छिन्नोच्छलद्भटशिरोर्दिताम्बरस्वेदोदबिन्दुभिरिवोडुभिर्बभौ ॥ २८ ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy