________________
४ विराटपर्व - ३ सर्गः ]
बालभारतम् ।
भीष्मोऽम्यधत्त सुलभः शुभैकभूर्भूखण्डभूषणमणिर्युधिष्ठिरः । एभिश्चरैरैमितिभिः स वीक्षितः सर्वत्र पर्वतधुनीवनादिषु ॥ ३ ॥ यत्रातिशुद्ध विधिविप्रमण्डली घुष्टत्रयीप्रमुदितस्त्रयी तनुः । काले जलं च तुहिनं च शक्तिमान्धर्मे च मुञ्चति नृणामदुःखदम् ॥४॥ दुग्धैः सहर्षसुरभीस्तनच्युतैरामूलमद्भुतरसासु भूमिषु । वापीषु यत्र जलमुद्भवत्यहो पातालनिर्यदमृतौघसंनिभम् ॥ ५ ॥ सत्कर्मकान्तवपुषाद्भुताद्भुतश्रीलक्षणेन सुतवत्सलात्मना । धर्मेण सत्यशुचिनांहिणान्वितो देशोऽस्ति तत्र खलु धर्मनन्दनः || ६ || ऊचे सुशर्मनृपतिस्त्रिगर्तभूनाथस्तदा कुरुपतिं कृताञ्जलिः । ख्यातं चरैर्मम समस्तर्भूमिभाग्देशेषु मत्स्यविषयोऽथ वर्ण्यते ॥ ७ ॥ तन्निश्चितं चरति गुप्तचर्यया तत्रैव धर्मतनुजः सहानुजः । दृश्यश्च कैश्चन कदाप्युपक्रमैः स्यान्नैष वो हरिरयोगिनामिव ॥ ८ ॥ तन्मत्स्यराजनगराद्धरामहे वृन्दं गवां तदिह चेद्विपः स्थिताः । तोपराभवरुषा गमिष्यति प्रत्यक्षतामसमयेऽपि फाल्गुनः ॥ ९ ॥ तत्रापि ते यदि भवन्ति न ध्रुवं वीरप्रकाण्ड तदपाण्डवं जगत् । तत्तादृगद्भुतविभूतिभूषणं मत्स्यादिभूर्ननु विगृह्य गृह्यते ॥ १० ॥ यो नाम धामचयधाम कीचकस्तस्याजनि क्षितिपतेश्चमूपतिः । दैवाज्जगाम जगतां स दुर्जयो गन्धर्वको पहुतभुक्पतङ्गताम् ॥ ११ ॥ तन्मत्स्यभूमिविभुरस्तकीच कोऽस्माकं स शल्यरहितेव शर्करा । आत्मप्रतापपरितापितात्मना तं वीर कीर्तिपयसा समं पिब ॥ १२ ॥ गोत्रद्विषं सबलबन्धुमेकतो दूरेण गोहरणतो हरामि तम् | तत्पत्तनं विभवमत्तमन्यतः स्वामिन्गृहाण विहितोद्यमः स्वयम् ॥ १३ ॥ आदाय संविदमिमां सुशर्मणः प्रोत्साहितस्तपननन्दनादिभिः । राजा रजः कलुषकीर्तिसिन्धुना सैन्येन गौहृतिमतिस्ततोऽचलत् ॥ १४ ॥ दिग्भ्यो यशः स्वमिव देहतः स्वतः पुण्यप्रतानमिव पावनं ततः । भर्ता त्रिगर्तविषयस्य याम्यदिङ्मुक्ताविराटनगराज्जहार गाः ॥ १९ ॥ १. 'धर्म' ख - ग. २ 'भूति' ख.
२३१