SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ४विराटपर्व-२सर्गः] बालभारतम् । २२५ रोमाञ्चद्विगुणतरौ तरसा बाहू तदा तदीयौ तौ । अदलयतां केयूरे किल दयिताश्लेषविघ्नभयात् ॥ १०१ ॥ तामवदन्मदनातः स सती क्षितिवलयमिलितनयनयुगाम् । सुमुखि समेहि समेहि त्यज लज्जां रचय परिरम्भम् ॥ १०२ ॥ अयमहमियं च संपत्परिजनजनतेयमेतदपि सदनम् । . उररीकुरु सकलमदकलमदशीली भवामि यथा ॥ १०३ ॥ इति निगदन्तमनन्तरमवलोक्य तमुत्सुकं प्रसङ्गाय । मणिभूषणकपिशतमं शीललतादवमसौ मेने ॥ १०४ ॥ दुरितद्विरदोन्मूलितमिव कीचकमंशुकातिकर्षण । तं भुवि परिपात्य ययौ राजनिकेताजिरं कृष्णा ॥ १०५ ॥ अभिसृत्य कामकोपद्विगुणिततापः कचैरथाकृष्य । द्रुपदात्मनां पदासौ श्रियमिव मूल् जघान स्वाम् ॥ १०६ ॥ द्रुपदसुतादेहादथ रक्षारक्षस्तदाशु निर्गत्य । दुरितमिव तस्य मूतै गतचेष्टमपातयद्भुवि तम् ॥ १०७ ॥ इति नृपतिसभायां भीमसेनोऽथ तिष्ठ. परिभवमवलोक्य स्वप्रियायाः प्रवीरः । शमितसमयरोधो बोधयन्क्रोधवह्नि लघु सुकृतसुतेनारोधि संज्ञाज्ञयासौ ॥ १०८ ॥ इति श्रीजनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के विराटपर्वणि पाण्डवगुप्तिर्नाम प्रथमः सर्गः । द्वितीयः सर्गः। स पराशरनन्दनो मुदे रिपुनारीनयनाञ्जना शनैः । असिभिततीव्रताजितैरिव यः कान्तिमिषान्निषेव्यते ॥ १ ॥ अथ पाण्डवजीवितेश्वरी द्रुतमुत्थाय कृतातुरस्वरा । रजसा वृतविग्रहा ययौ जगतीपालसभां स वल्लभाम् ॥ २ ॥ १. 'तरं' ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy